________________
महोपाध्याय श्री मेघविजयगणिविरचिते सप्तसन्धानमहाकाव्ये
श्रीकाशिराजस्य महाश्वसेनाख्याने श्रुतेऽप्यागमनिश्चयेन ॥ क्षमापि दियोहविनाशनेन, पराऽभिघाताय विनाशनेन ॥ ५८ ॥
अन्वयः - श्री काशिराजस्थ महाश्वसेनाख्याने श्रुतेऽपि पराभिघाताय आगमनिश्वयेन अशनेऽपि क्षमा न आपि ( शत्रुवगैः ) दियोहविनाशनेन विना ॥५९॥ व्याख्या - श्री काशिराजस्य = श्रिया = राजलक्ष्म्या काशते दीप्यते तच्छीलः श्रीकाशी स चासौ राजा च इति श्री काशिराजस्तस्य तथो - क्तस्य महाश्वसेनाख्याने =महत्या स्तुरङ्गमसेनाया आख्याने = प्रसिद्वेतिवृत्तवर्णने श्रुतेऽपि = श्रवणगोचरी कृतेऽपि पराभिघाताय = शत्रूणां दलनाय आगमनिश्चयेन = इयमागच्छति सेना इत्येवं स्वप्रतीपक्षितिप सेनोपस्थिति निर्णयेन अशनेऽपि - भोजनेऽपि क्षमा शान्तिः चित्तैका - ग्न्यमित्यर्थः न आपि प्राप्ता शत्रुवर्गेरिति शेषः । किं सर्वथैव नेत्याहदिङ्मोहविनाशनेन विना = दिशाभ्रान्ति विनाशो यावन्न तावदित्यर्थः । क्षमा भूमौ तितिक्षायां स्त्रियां युक्ते नपुंसकम् इति मेदिनी ॥ ५८ ॥ अजः सपक्षे सवितैव तावत्,
तस्याऽधिपत्ये सुषमा जगत्याम् ।
६२
-
लोकस्य कस्यापि न दुःखलेशः,
www
क्लेशः कुतोऽन्योन्ययुधायुधानाम् ॥५९॥
( अन्वयः ) यस्य सपक्षे सविता अजः एव ( नान्यः ) तस्य आधिपत्ये जगत्यां सुषमा ( सुषमा स्थितिः, वृत्तिर्वा ) ( आसीत् ) । कस्यापि लोकस्य दुःखलेश: न ( अभूत् ) अन्योन्ययुधायुधानां क्लेशः कुतः ( सम्भवति )!
व्याख्या -यस्य राज्ञः सपक्षे - सादृश्यकोटौ तुल्यरूपतायामि