SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ आचार्यश्रीविजयामृतरिप्रणीता सरणी टीका. खलानलानांखला: दुर्जनाः अनला:-अमय इव खला एव अनला इति वा खलानलास्तेषां तजनितमित्यर्थः तापं सन्तापं दौर्जन्यजनि तोपद्रवमित्यर्थः सहसा झटिति अपज हे अपहृतवती । वसुधा=पृथ्वी अपि तदा तस्मिन् काले राजप्रभाववशप्रशान्तदुर्जनादिजनिताऽशेषाऽशातजात समये इत्यर्थः सुधाऽभिषिक्ता-सुधा-अमृतमिव सुधा जलं तया अमृतोपमजलेनेत्यर्थः अभिषिक्ता जातसेका अभूत् ॥ उप. माऽतिशयोक्तिश्थालंकारौ ॥५६॥ अभीतिनोतिः प्रस्मृताऽऽसमुद्र प्राजाधिपत्याद् युगपत् प्रवृत्त्या ॥ ततः समयं वसुदेवतेजो न्यकृत्यरेजे रजसाऽञ्जसैव ॥ ५७ ॥ अन्वयः-ततः आसमुद्रप्राजाधिएत्यात् युगपत् प्रवृत्त्या (च) प्रसूता अभी तिनीतिः समग्रं वसुदेव तेजः अञ्जमा रजसान्यक्कृत्य रेजे ॥ ५७ ॥ व्याख्या-ततः तदनन्तरम् आसमुद्रप्राजाधिपत्यात समुद्रायधिशासनकरणात् युगपत् एकदैव प्रवृत्त्या आज्ञादिप्रचारेण च प्रसृता-विस्तृता व्याप्तेत्यर्थः अभीतिनीति: कस्मा अपि भयं न देयमिति मयि दुर्विनीतानां शासितरि केनापि न भेतव्यमिति वाऽभयदानविषयिणी राजनीतिः समग्रं-सम्पूर्ण वसुदेवतेजा-वसूनां धनानां स्नानां वा देवाः अधिपाः 'वसुना दीव्यन्तीति व्युत्पत्त्या' धनिन इत्यर्थः तेषां तेजः दुर्विध विविधवाधासंबाधजनकः प्रतापः तत् कर्मभूतं रजसा-राजसभावेन धूलीरूपेण वान्यक्कृस्य तिरस्कृत्य अधाकृत्येति वा अञ्जसाझटिति रेजे-दिदीपे ॥ धनेरत्नेवसुस्मृतम् इत्यमर इति कोषः ।। ५७ ॥
SR No.008453
Book TitleSaptasandhan Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmrutchandracharya
PublisherJain Sahitya Vardhak Sabha
Publication Year
Total Pages480
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy