________________
६.
महोपाध्यायश्रीमेघविजयगणिविरचिते सप्तसन्धानमहाकाचे
(अन्वयः) नृपे तां महीं शासति (सति) सनामिभृतेः सुहृदुत्तमानां, सनाऽभिभूतेः द्विषदुचमानां (च) सामान्यमासीत् उभयादरेण ॥ ५५ ॥
व्याख्या-सामादिराजनीतिमाह-सनाभीति । नृपे विश्वसन प्र भृतौ राज्ञि तां-पूर्वोक्तरूपां महींपृथ्वी शासति सति-राज्यं पाल. यति सति, सनाभिभूतेः सनाभिः ज्ञातिस्तस्य भूतिः भवन तस्मात् तथा च ज्ञातिभवनात् बान्धववदनुकूलीभावात् सुहृदुत्तमानां-स्वविष: यानन्तरितनृपभिन्नमहीपतिनाम् तथा सना-सदा अभिभूतेः पराभवनात् द्विषदुधमानां-द्विपता-शत्रूणां स्वविषयाऽनन्तरितनृपाणामुद्यमानां प्रयत्नानां च चिरेण सामान्य साधारण तुल्यरूपतेत्यर्थः उभयत्र सनाभिभूतित्वस्य सत्वात् आसीत् । अत एव उभयादरेण= उभयः शत्रुभिः भयात्कृतेन मित्रैश्च स्नेहात्कृतेन आदरेण सम्माननेन, उभयेषामादरेण वा यद्वा उभयेषु-शत्रुषु मित्रषु च आदरेणशत्रुपक्षे आ-समन्तात् दरेण-भयेन तजननेनेतिभावः मित्रपक्षे सत्कार करणेन नृपे महीशासतीत्यनेन सम्बन्धः । तुल्ययोगीता इलेपः विरोधाभासश्चालङ्काराः। ॥ ५५ ॥
श्रीविश्वसेनाऽवनिपं तमाच्य
__ ज्योत्स्नेव तापं सहसाऽपजह्वे ॥ चलाचलानां च खलानलानां,
सुधाऽभिषिक्ता वसुधातदाऽभूत् ॥५६॥ अन्वयः-- तम् अवनिपम् आप्य श्रीविश्वसेना ज्योत्स्नेव चलाचलानां खलामलानां तापं सहसाऽपजहे वसुधाऽपि तदासुधाभिषिक्ताऽभूत् ॥ ५६ ॥
(व्याख्या) तं-पूर्वोक्त विश्वसेन प्रभृतिम् अवनिपं-राजानम् आप्य लब्ध्वा श्रीविश्वसेना-श्रिया शोभयायुक्ता विश्वासमग्रा सेना ज्योत्स्नेव-चन्द्रिकेव चलाचलानाम् अत्यन्तचञ्चलस्वभावानां