________________
आचार्यश्रीविजयामृतसूरिप्रणीता सरणी टीका. नाम यस्य स इत्यर्थः शेषं पूर्ववत् ।।
चतुर्थपक्षे-'नाभिः' इति विशेष्यम् 'यः, सः' इत्यनयोश्च 'यः नाभितन्नामा अवनिपतिरासीत् स विश्वसेनः अश्वसेन इत्यादिरूप इत्येवं रीत्याऽन्वययोजना कर्त्तव्या । 'सुरेश' इत्यस्य इन्द्र सदृश इत्यर्थश्च बोद्धव्यः ॥ - पञ्चमे-बलिविजयी चासौ समुद्रान्नामैक देशग्रहणेन नाम ग्रहणात् 'समुद्रविजयः' इत्येतन्नामकश्चेति स बलिविजयिसमुद्रः। शेषं पूर्ववत् ।
षष्ठपक्षे सिद्धार्थ इति संज्ञा-नाम यस्य स सिद्धार्थ संज्ञः प्रौढश्वासौ सिद्धार्थसंज्ञश्चेति स प्रौढ सिद्धार्थसंज्ञः अवनिपतिरासीदित्येवमन्वयः कार्यः । शे० पू०
सप्तमे-'अरुणतेज' इति विशेष्यपदम् तस्य च तस्य-प्रसिद्धस्य भूकपश्यस्य भुवि स्वांशेनावतीर्णस्य कश्यपस्य-तदाख्यप्रजापतेः प्रसृ तं-विस्तीर्णम् 'अरुणतेजः' सूर्यवद्दीप्रतेजोरूपः वसुदेव इत्यर्थः कश्यपतेज एव वसुदेव रूपेण परिणम्याऽवतीर्णमिति लोकप्रसिद्धिः एवंप्रकारेणार्थः कार्यः। अत्रक्रमेण शान्तिनाथ-पार्श्वनाथ-रामचन्द्राऽऽदिनाथ-नेमिनाथ-वीरप्रभु-कृष्णवासुदेवानां पितरः (विश्वसेनः, अश्वसेनः, दशरथः, नाभिः, समुद्रविजयः, सिद्धार्थः, वसुदेव इतिनामानः ) प्रदर्शिताः ॥ ५४॥ सनाभिभूतेः सुहृदुत्तमानां,
सनाऽभिभूते--द्वैिषदुधमानाम् । सामान्यमासी-दुभयादरेण,
नृपे महीशासति तां चिरेण ॥ ५५ ॥