________________
५८ महोपाध्यायधीमेधविजयगणिविरचिते सक्षसन्धानमहाकाव्ये विश्वसेनः अश्वसेनः दशरथनामा सुरेशः शे-१० ॥ ५०पक्षे-बलिविजयि समुद्र (विजय): अवनिपतिरासीत शेषं पू० ॥ ष: प० -प्रौढ 'सिद्धार्थ' संज्ञः अवनिपतिरासीत् शे० पूर्ववत् ॥ सप्तमपक्षे-तस्य भूकश्यपस्य प्रसृतम् 'अरुणतेजः': वसुदेवः अवनिपतिरासोत् शेषं पूर्ववदन्वययोजनम् ॥ ५४ ॥
व्याख्या-नगराणि प्रदर्य सप्तार्थकेन पद्येन भूमिपालान् दर्शयति-अवनिपतिरिति । इह-अस्मिन् नगरे विश्वसेनः= विश्वसेन' इत्येतनामकः अवनिपतिः राजा आसीत् अभूत् । कीदृशः स इत्याहअश्वसेनः अश्वानां-जात्यतुरङ्गमाणां सेना यस्य स तथोक्तः । दशरथनामा दशसु दिक्षु गतो रथः कीर्तिरूपं वाहनं यस्य तद् दशरथं तादृशं नाम-अभिधानं यस्य स तथोक्तः कीारूढं तदभिधानं दशदिक्षु व्याप्नोतीत्यर्थः । दशरथस्येव सुप्रसिद्धं नाम यस्य स इति वा, सुरेशः सुरान् देवान् सुरेषु वा ईष्टे अभवतीति सुरेट-इन्द्रस्तस्य सनाभि ऐश्वर्यादिना सदृशः, बलिविजयिसमुद्रः बलिनः पराक्रमिणो विजयते तच्छीलः बलिविजयी स चासो समुद्रः सह मुद्रया प्रत्ययकारिण्या राजकीयत्वप्रमापक चिह्न विशेषेण, यद्वा अङ्गुलिधार्यमुद्राङ्कनयुक्ताऽङगुलीयकेन, अथवा सह मुद्राभिः स्वर्ण-रौप्यादित. काभिः कोटीश्वरत्वात्. च इति स तथोक्तः, प्रौढ़सिद्धार्थ संज्ञः प्रौढ़ा-प्रवृद्धा प्रगल्भा वा निपुणा वा सिद्धार्था सम्पादितोद्देश्या च संज्ञा=बुद्धिर्यस्य स तथोक्तः । 'अवनिपति रासीदि'-ति सम्पूर्णवाक्यम् । तस्य-निरुक्तस्य अवनिपतेः, भूकश्यपस्य-भुविन्भूतले कश्यप इव प्रजापतित्वात् इति भूकश्यपस्यपस्तस्य, अरुणतेजः= सूर्यवत्प्रतापः सर्वत्र प्रसृतंव्याप्तम् आसीदिति शेषः ।
द्वितीयपक्षे-'अश्वसेन' इति विशेष्यम् 'विश्वसेन' इत्यस्य विश्वा सम्पूर्णा सेना-चमूः यस्य स इत्यर्थः । शेषं पूर्ववत् ।
तृतीयपक्षे-'दशरथनामा' इति विशेष्यपदम् तस्य दशरथ इति