________________
आचार्यश्रीविजयामृतसूरिप्रणीता सरणी टीका.
ऽभयाऽऽप्ता:-नवेन-रक्तपुनर्नवया तत्सेवनेनेत्यर्थः, अभयं-शोथादिरोगभयराहित्यम् आप्ताः प्राप्तवन्तः,आप्तं लब्धं यैरिति वा ते तथोक्ता। बहुशोभया-सातिशयदीप्त्या आप्ता:-व्याप्ता यद्वा बहुश:-अनेकशः असदित्यर्थः अभयं-निर्भीकत्वम् अभयदानमित्यर्थः आप्तं लब्धं येभ्यस्ते तथोक्ताः लोकेभ्योऽभयदायिन इत्यर्थः । बहुशः-बहुलया भया-प्रभया आप्ता इति वा । अविक्रियाः-विकाररहिताः, यद्वा अविःमेषस्तस्येव क्रिया-कर्म सडीभावादिकं येषां ते तथोक्ताः।
अतिथिसक्रियाङ्गा:-अतिथीनां -प्राघूर्णिकानां साधूनां सक्रियायै-सत्काराय सम्माननायेत्यर्थः अङ्ग-शरीरं येषां ते तथोक्ताः यद्वा अतिथिसक्रियायाम् अतिथिपूजायाम् अङ्ग-मनो येषां ते तथोक्ताः अथवा अतिथिसक्रियाया अङ्गानि-उपायाः साधनानीत्यर्थः सामग्रीइति यावत् येषान्ते तथोक्ताः । यद्वा 'तिथिसक्रियाङ्गाः' इतिच्छेदस्तस्य तिथीनां-तीर्थकर जन्मादिधर्मपर्वदिवसानां सक्रियायै-सम्माननार्थम् अङ्गं येषां ते तथोक्ताः इत्यर्थः । विनया तु बलायां स्त्री शिक्षायां प्रणतो पुमान् इति मेदिनी । अनुप्रासः ।। ५३ ।। अवनिपतिरिहासीद् विश्वसेनोऽश्वसेनोऽ
प्यथ दशरथ नाम्ना यः सनाभिः सुरेशः । बलिविजयिसमुद्रः प्रौढ़सिद्धार्थसंज्ञः,
प्रस्तृतमरुणतेजस्तस्य भूकश्यपस्य ॥ ५४॥ (अन्वयः) इह विश्वसेनः अवनिपतिः आसीत् यः, अश्वसेनः, दशरथ नामा सुरेशः सनाभिः, बलिविजयि समुद्रः प्रौढसिद्धार्थसंशः तस्य भूकश्यपस्य अरुणतेजः (सर्वत्र) प्रसृतम् (आसीत् ॥ द्विपक्षे-अश्वसेनः अवनिपनिरासीत् विश्व. सेन: दशरधनामा. शेषं पूर्ववत् ॥ तृ०१०-'दशरथनामाऽवनिपतिरासीत, की. विश्वसेनः भवसेनः शेषं पू० ॥ च०५०-यः नाभिः अवनिपतिरासीत् स
।