________________
५६
महोपाध्यायनीमेघविजयगणिविरचिते सहसम्मानमहाकाये
(अन्वयः) विप्रमुक्तं गौरवं न ध्यायति विप्रम् उक्कं गौरवं ध्यायति न? किन्तु ध्यायति पुनः रभसावाचानवार्थाः पुनर्न वाचा रभसा अनवार्धा अपुनर्न ॥५२॥
__ (व्याख्या) विप्रमुक्तं त्यक्तं वस्तु प्रति गौरवं महार्घत्वं नध्यायति न चिन्तयति प्रदत्तवस्तुनो महत्वादिचिन्तां न करोतीत्यर्थः त्रिप्रम् विविधं प्राति पूरयतीति विनम् शास्त्रम् उक्तम् गुर्वादिजनोपदिष्टम् गौरवम् तदीयमहत्वम् न ध्यायतीति न किन्तु ध्यायत्येव, पुनः रभसापौर्वापर्याविचारेण हठादित्यर्थः वाचा वाक्येन नवार्थाः नवी. नार्थाः न ध्याय्यन्ते न विचार्य्यन्ते वाचायाः रभसा औत्सुक्येन अनवार्थाः अभिधेयार्थाः अपुनर्न किन्तु पुनः पुनः तदीयार्थी विचारिताः ॥ यमकालंकारः ॥५२॥ नये प्रसक्ता विनयेऽनुरक्ता,
जयेन तद्वदृविजयेन पूर्णा । नवा भयाप्ता बहुशोभयाऽऽताः,
अविक्रिया स्तेऽतिथिसक्रियाङ्गाः ॥५३ (अन्ययः) ते नये प्रसक्ताः, बिनयेऽनुरक्ताः, जयेन तद्वद् विजयेन पूर्णाः, नवा भयाप्ताः, बहुशोभयाऽऽसाः, अविक्रियाः अतिथिसरिकयाताः (आसन्)
(व्याख्या) ते-तत्रत्यजनाः नये-नीतौ, शुक्राचार्यादिप्रणीत नीतिशास्त्रे वा न्याय्ये या प्रसक्ताः-आसक्तिमन्तः, विनये-नम्रतायां वन्दनीय जनप्रणामेवा शिक्षायां वा विनीतजने वा जितेन्द्रिये वा अनु. रक्ताः-अनुरागिणः। जयेन-शत्रूणाममिभावनेन तद्वत्-तथा विजयेनपरिभवपूर्वकग्रहणेन च पूर्णाः-सहिताः अति विक्रान्ता इत्यर्थः । नवानैव भयामा-भयग्रस्ताः यद्वा नवा भयाप्ता इत्येकम्पदम् नवेनजिनेन्द्रादिस्तवेन अभयाः-निनोकाश्च ते आप्ता:-सत्याः विश्वस्ता वा रागद्वेषादिवर्जिता वा यथार्थज्ञातारोवा च ते तथोक्ताः । यद्वा नपा.