________________
आचार्यश्रीविजयामृतसूरिनणीता सरणी टीका, लक्ष्मी नासत्ययोः अश्विनीकुमारयोः लक्ष्मी शोभा वपुषा-शरीरेण अतिपुष्णन्-विशेषेण धारयन् सन् असत्यलक्ष्मी कृत्रिमशोभाम् आहार्यशोभामित्यर्थः यद्वा अन्यायोपार्जित धनं 'लक्ष्मीः सम्पत्तिशोभयोः । ऋध्यौषधौ च पद्माया' मितिमेदिनी । स्वरूपात स्वभावात् एव न धरते-गृह्णाति । 'स्वरूपं च स्वभावश्च'-त्यमरः । किञ्च यतेभ्यः संयमिभ्यः सकाशात् सत्यागमार्थ सत्यानाम् अवितथानां त्रिकालाबाधितस्वरूपाणामित्यर्थः अव्यभिचरितार्थप्रतिपादकानामिति यावत् आगमानां सिद्धान्तानाम् अर्थम् अभिधेयं यद्वा सत्याss. गमाऽर्थम् सत्योपदेशरूपं वस्तु श्रय ने गृह्णाति । अतएव सत्यागं त्यागेन-दानेन सहितम् आर्थम् अर्थ (धन) सम्बन्धि फलं भोगरूपम् यद्वा सत्याचञ्चनारहितत्वान्न्याय्यः आगम:=आयो यस्यतादृशम् अर्थ-धनम् तद्रूपं फलं-लाभम् अथवा सत्यागा-त्यागेन-दाने न सहिता चासौ मा लक्ष्मीः सम्पद्रपा तदर्थ फलं-कार्य, प्रयोजनं लाभ वा लभते प्राप्नोति ।। अर्थस्य तावत् दान-भोग नाशरूपास्ति . स्रो गतयो(ऽवस्थाः) भवन्ति तत्र च दान भोगावेव तत्रत्यानामास्ता मिति भावः । उक्तमन्यत्र-'दानं भोगो नाश स्तिस्रो गतयो भवन्ति वित्तस्य । यो न ददाति न भुङ्क्ते तस्य तृतीया गतिर्भवति' इति । यमकम् श्लेषः काव्यलिङ्गम् उपमा विरोधाभासः, अतिशयोक्तिश्चा. ऽलङ्काराः । फलं जातीफलेशस्ये हेतूत्थे व्युष्टि लाभयोः इतिमेदिनी । अर्थोऽभिधेय रै-वस्तु प्रयोजन निवृत्तिषु इत्यमरः ।। ५१ ।। नगारवं ध्यायति विप्रमुक्तं,
नगौरवं ध्यायति विप्रमुक्तम् । पुनर्नवाचारभसा नवार्थाs
पुनर्नवाचारभसानवार्थाः ॥ ५२ ॥