SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ ५४ महोपाध्यायश्रीमेघविजयगणिविरचिते सप्तसन्धानमहाकाव्ये विनोदाः यद्वा कलाऽनुशीलनजनितदीप्तयः मनमा-चेतसा अवधा यः अवधारयितुं-निश्चतुं शक्याः नतु वाचाऽपि तेपामवाग्गोचरकला कलापशालित्वादितिभावः कः सहेत्याह रसभाजनै-विभावा-ऽनुभाव व्यभिचारिभावव्यङ्गयशमादिस्थायिभावकशान्तादिग्सोद्वोधपात्रीभूतैः सभाजनैः सभ्यैः वा अथवा स्वैः आत्मीयः ज्ञातिभिरितियावत , कैः करणैः ? रसभाजनैः मधुरादिरमान्वितभोजनपात्रैः । कः सहेब ? नभोगैः-नभश्चरैः विद्याधगदिभिः सहेब किञ्च सभाजनैः-सपात्रः स्त्रैरसभाजनैः स्वैराणां स्वच्छन्दानां स्वेच्छाचारिणामित्यर्थः 'स्वैरः स्वच्छन्द-मन्दयोः' इत्यमरः सभा समुदायस्तत्सम्बन्धिजनैः, सदा नभोगैः यस्त्रादीनां दानैः सत्पात्रे प्रतिपादनः भोग: फलादीना. मुपभोगैश्च सहितः । किञ्च तदेशीयजनानां कला विलाशा कला मूलविवृद्धिः दत्तधनस्याधिकलभ्यांश इत्यर्थ स्तयाऽऽविलस्य मलि. नस्य धनादेः आशा तृष्णा न कार्याकरणीया आसीदितिशेषः । विरोधाभासोऽलङ्कारः। कला स्यान्मूलविवृद्धौ शिल्पादावंशमात्रके इतिमेदिनी ॥ ५० ॥ नासत्य लक्ष्मीवपुषाऽतिपुष्ण नाऽसत्यलक्ष्मी धरते स्वरूपात् । सत्यागमार्थं श्रयते यतेभ्यः, सत्यागमार्थ लभते फलं सः ॥५१॥ (अन्वयः) सः नासत्यलक्ष्मी वपुषा अतिपुष्णन् असत्यलक्ष्मी स्वरूपात् न धरते यतेभ्यः सत्यागमार्थ श्रयते (अतएव) सत्यागमार्थं फलं लभते ॥५॥ (व्याख्या) तेजोविशेषादिकं दर्शयति-नासत्येति । सवर्ण नीयतया प्रक्रान्तो जनः (अत एवयच्छब्दाऽनपेक्षा प्रक्रान्त प्रसिद्धाऽनुभूतार्थकस्तच्छब्दो यच्छब्दोपादानं नापेक्षते इत्युक्तेः) नासत्व
SR No.008453
Book TitleSaptasandhan Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmrutchandracharya
PublisherJain Sahitya Vardhak Sabha
Publication Year
Total Pages480
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy