________________
भाचार्यश्रीविजयामृतसूरिप्रणीता सरणी टीका. ५३ न वामनस्य प्रकृति विधापि,
न संनिभं कोऽपि बिभर्तिरूपम् । नालीकनाम्नोऽस्त्रवरे प्रयोगो,
भोगे च नालीकमनाजनोऽस्याम् ॥४९॥ (अन्वयः) अस्यां कोऽपि द्विधापि आमनस्यप्रकृतिर्नवा (अस्ति), कोऽपि वामनस्य संनिभं रूपं न बिभर्ति । अस्त्रवरे नालीकनाम्नः प्रयोगः, भोगे च अली. कमना न(अस्ति) ॥ ४९ ॥
(व्याख्या) अस्यां नगर्यां कोऽपिजनः द्विधापि-मनसा वाचाऽपि आमनस्यप्रकृतिः आमनस्यं दुःखं तन्मयी प्रकृतिः स्वभावो यस्य स तथोक्तः नवान्नैत्र अस्तीति शेषः, किञ्च कोऽपि वामनस्य खर्वस्य संनिभं-सदृशं रूपम् आकृति न बिभर्ति धारयति । अस्त्रवरे श्रेष्ठेऽस्त्रविशेषे नालीकनाना-नालीक इत्येतच्छब्दस्य प्रयोगः लौह मयाऽन्तःसच्छिद्रशरविशेष एव नालीकशब्दस्य व्यवहार इत्यर्थः किन्तु भोगे=सुखे भोजनादौ अलीकमनाः असत्यचित्तः निष्फलचित्तो वा जनो न अस्तीत्यध्याहृतक्रियासम्बन्धः। परिसङ्ख्याऽलङ्कारः॥४९ कलाविलासा मनसाऽवधार्याः,
कला विलाशा न कदापि कार्या । सभाजनैः स्वैरसभाजनै ा,
सदा नभोगै रिवदानभोगैः ॥ ५० ॥ (अन्वयः) ( तत्रत्यजनानां ) कलाविलासा मनसाऽवधार्याः, रसभाजनैः सभाजनैः वा स्वैः रसभाजनैः, नभोगैरिव, सभाजनैः स्वैरसभाजनैः सदानभोगैः (तत्रत्यानां)कलापिलाशा न कार्या (आसीत् ) १॥५८ ॥
(व्याख्या) तत्रत्यानां जनानां कलाविलासा-कला नृत्यगीत वादित्रादिचतुःषष्टिप्रकाराः विभूतयो वा तासु ताभिर्वा विलासा: