________________
महोपाध्याय श्री मेघविजयगणिविरचिते सप्तसम्धान महाकाच्चे
वत् पुनरनयोः नगर्योः निवासः = जातावेकवचनम् वसतिसंहतिः श्रे यान् = अतिशयेन प्रशस्यः, कथमित्याह यतः सुमनोविलासः - सुमनसां - प्रशस्तचित्तानां जनानां विलासा:- आनन्दा यत्र सः यद्वा सुमनोभिः - पुष्पैः विलासोयत्र सः अथवा सुमनसां - कोविदानां विलासा:विनोदा यत्रसः तथोक्तः । पक्षे - सुमनसां - देवानां विलासोयत्रस इत्यर्थः । सुमनाः पुष्प मालत्यो स्त्रिदशे कोविदेऽपि चेति मोदिनी श्लेषः, उपमाध्वनिः ।
लक्षे जनोऽस्मिन् कृतहस्त एव, लक्षे पुनर्नो मनसा दधाति ।
स्वं मन्यते दानविधौ परार्थ,
५२
परार्थ स मनुते ह्यनर्थम् ॥ ४८ ॥
( अन्वयः ) अस्मिन् जनः लक्षे कृतहस्त एव पुनः लक्षे मनसा नो दधाति । airवध स्वं परार्थ मन्यते परार्थसङ्गे हि अनर्थ मनुते ॥ ४८ ॥
(व्याख्या) तत्रत्यजनानां शौयों- दार्यादिगुणशालितां दर्शयति । अस्मिन् प्रस्तुतनगरे जनः = लोकः लक्षे =लक्ष्ये तत्साधने इत्यर्थः कृतहस्तः=कृतः अभ्यस्तो हस्तो यस्य स तथोक्तः सुशिक्षितशरविद्य इत्यर्थः एव पुनः = अन्यच लक्षं दशायुतसंख्यां रूप्यक- मुद्रादीनां मनसा चेतसाऽपि नो दधाति = चिन्तयतीत्यर्थः अतिसमृद्धिशालित्वात् तेषां मनसि लक्षं न किञ्चिदितिभावः । दान विधौ - दानकर्मणि प्रवृत्तः स्व= आत्मीयं सर्ववस्तु जातं यद्वा स्वं धनम् आत्मानं वा परार्थ-=परोपकारफलकं मन्यते । परार्थसङ्गे= परार्थस्य परकीयधनस्य परकीयवस्तुनो वा सङ्गे-सम्बन्धे अन्यदीयधनप्राप्तावित्यर्थः स्वं धनम् आत्मानं वा अनर्थम् = अफलम् अनर्थकरं वा मनुते बुध्यते । विरोधाभासोऽलङ्कारः । लक्षं लक्ष्यं शरव्यं च इत्यमरः ॥ ४८ ॥