________________
-
आचार्यश्रीविजयामृतसूरिप्रणीता सरणी टीका;
बालः चलत्वं चिजही तत् मया किं धार्य मितिहियेव स्थिरत्वं दधौ ॥ १६ ॥
(व्याख्या रमा लक्ष्मीः सूनो स्वपुत्रस्य कामस्य अत्र नगरे अनूनोदयं बहुतराऽभिवृद्धिम् अवधार्य निश्चित्य इव धैर्यात अव्याकुलत्वात् स्थिरत्वं निश्चलत्वं दधौ-धृतवती. अत्रोत्प्रेक्षान्तरं दर्शयति वाल: मत्पुत्रः कामः महौजाः महाबलशाली प्रकृतिचपलश्च सन्नपि यदा चलत्वं-चाश्चाल्यं विजहौं-परितत्याज इतिहेतोः तत्-चलत्वं मया लक्ष्म्या किं धार्य-वर्तव्यं तथा तु बालादपि न्यूनाभवेयमिति ह्रिया लज्जया इव स्थिरत्वं दधौ इति सम्बन्धः ।।उत्प्रेक्षालङ्कारः॥४६ अस्या व्यवस्येयमहं वयस्यां,
द्यामेव पद्यां नयसंशयाब्धौ । पतिः सुधावजयवाहिनीशः, |
श्रेयान् निवासः सुमनोविलासः ॥४७॥ (अन्वयः) नयसंशयाब्धी (निमग्नः) अहम् अस्याः वयस्यां द्याम् एव पद्यां व्यवस्येयम् । पतिः सुधावजयवाहिनीशः निवासः श्रेयान् सुमनोविलासः ॥४७॥
(व्याख्या) स्वर्गसादृश्यं दर्शयति अस्या इति । नयसंशयाब्धौ नीति विषयक शङ्कासागरे निमग्न इति शेषः अहं मेघविजयाऽभिधः कविः अस्याः नगर्याः क्यस्यां सखी सहशीमित्यर्थः, यां-स्वर्गपुरीम् एव पद्यान्मार्गभूतां व्यवस्येय-निर्धारयेयम् । अस्यां नगर्या कीदृशी नीतिरितिविचारपारावारनिमग्नोऽहं स्वर्ग चेतसि निधाय स्वर्गसशी नीतिरितिनिश्चित्य शङ्काकलङ्कपङ्कसङ्करं दुरयामीतिभावः ! साम्यमुद्भावयति पतिः अधिपः प्रस्तुतनगर-स्वलॊकयोः, सुधावजयवाहिनीश: प्रथमपक्षे-सुधावतां ससत्वरं गच्छतां या जय. वाहिनी-जयं वहतीत्येवंशीला सेना तस्या ईश: शासकः, द्वितीयपक्षे-सुधाक्तांसुधा-अमृतं तद्वतांन्देवानां जयवाहिनीशः इति पूर्व