________________
महोपाध्याय श्री मेघविजय गणिविरचिते सप्तसन्धान महाकान्वे वामाध्वना=शिष्टसमष्ट्याचरितरुचिरमार्गेण वर्तनशीलेतिशेषः यद्वा वामः =रम्यः मधुर इत्यर्थः आ = समन्तातुध्वनो भाषा यस्याः सा मधुरवादिनीत्यर्थः । सूरतमूर्तिसाधुः = सूरतया दयावत्या मूर्त्या खरूपेण साधुः = मनोहरा सभ्या - शिष्टावा यद्वा सूरता मूर्तिर्यस्याः साचासौ साधुः = कुलीना - महाकुलसमुद्भवा - चेति सा तथोक्ता । स्यादयालुः कारुणिकः कृपालुः सूरतः समा इति. महाकुलकुलीना-र्य-सभ्यू - सज्जन - साधव इति चामरः । साधुर्वार्धुषिकेचारौ सज्जनेऽप्यभिधेयवत् इति मेदिनी ॥ ६२ ॥ सौरभ्यवित्तं जलजं प्रदाय,
चन्द्रः कलाकौशल मुज्ज्वलत्वम् ।
जाने
( अन्वयः ) कजेन्द्र समयं प्रपथ तदास्याऽनुगमात् विभूतिं प्राप्ती (इति) मन्ये जलजं सौरभ्यवित्तं चन्द्रः कलाकौशलमुज्ज्वलत्वं प्रदाय ॥ ६३ ॥
૬.
तदास्यानुगमाद् विभूर्ति, प्राप्तोकजेन्दू समयं प्रपद्य ॥ ६३ ॥
कजेन्दू-कमल- चन्द्रमसौ समयं क्रमेण दिवस-रात्र रूपकालं प्रपद्य= प्राप्य तदास्याऽनुगमात् तस्या = अनुपदोक्त राज्याः आस्यस्य=मुखस्य अनुगमात्=अनुसरणात् सेवनादित्यर्थः तन्मुखसेवनाssसादितप्रसादादितिभावः विभूति - मुपमानस्थानीयत्वादिमहिमानं प्रासौ = लब्धवन्तौ इत्यहं जाने मन्ये उत्प्रेक्षे इत्यर्थः । ननुकिं दत्त्वा ताभ्यां प्रसादो लब्ध इत्याह-जलजंकमलं सौगन्ध्यरूपं धनं, चन्द्रश्थ कलाकौशलं=कलासु=चतुःषष्टिप्रकारासु कौशलं - नैपुण्यम् उज्ज्वलत्वम् = औज्ज्वल्यमनुपमकान्तिमत्वम् आह्लादकत्वं वा प्रदायन्दत्वेत्यर्थः । कमलगुणाः चन्द्रगुणाश्च तन्मुखेऽवतिंषतेति भावः ॥ उत्प्रेक्षाकाव्यलिङ्गं च ॥ ६३ ॥