________________
.
.
.
....
.
.
.
.
"
__४८ महोपाध्यायधीमेघविजयगणिविरचिते सप्लसन्धानमहाकाग्ये
...................... णीभिः-स्त्रीभिः आश्रितो दुर्गशैलो यत्र तत्तथोक्तम् । सक्षत्रियत्वात्राजन्यसहितत्वात् सुशासकरक्षितत्वादितिभावः । बहुलक्षणाढध-बहुलैः-बहुसंख्यैः प्रभूतैः क्षणैः-उत्सवैः आव्यम्-विशिष्टम्। यद्वा ब. हुभिः-अनेकैः लक्षणैः-पूर्वोत्तरप्लवत्वादिशुभचिह्नः आढय युक्तम् । अथवा बहुलक्षणाः-प्रचुरोत्सवशालिनः आढ्याः-धनिनो यत्रतत्तथोकम् बहुभिालक्षणः-सारसपक्षिभिराढयं-युक्तमिति वा । तथा सुराजराज्यादरविप्रयुक्तम्-सुरा-मदिरा जरा-वाक्यं, ज्या मौर्वी चापरज्जुरित्यर्थः दरः त्रासस्तैर्विप्रयुक्तं-विहीनम् । यद्वा सुरेभ्यः-देवे. भ्यः अजा:-बल्यर्थमुपकल्पिताश्छागा स्तेषां राजौ-श्रेण्यामादरोयेषां ते तादृशा ये विप्राः-वामोपचारितया काल्यादि देव्याराधका द्विजविशेषास्तयुक्तं-विशिष्टम् । अथवा शोभनो राजा सुराजा तस्य राज्ये आदरः-सम्मानः अदरः-त्रासाभावो वा येषां तादृशैविप्रैर्युक्तम् । सुराज्ञो राज्ये राजकर्मणि य आदरस्तेन विप्रयुक्त-विशेषेण युक्तम् इति वा । गृहाणां--प्रासादादीनां रम्यैः-मनोहरै उदयैः-प्रथम दर्शनयोग्यभवनभागैः सिंहद्वाररित्यर्थः समुन्ननिभिर्वा विराजत्-शोभमानम् ॥ ४२ ॥ इहाऽभवद्वैभवसंभवेन,
पुरी पुरीणां गणने धुरीणा। निरीक्षणीया ह्यनिमेषनेत्रै
श्चित्रैर्विचित्रैरिव मेरुचूला ॥ ४३ ॥ अन्वयः-- इह वैभवसंभवेन पुरीणां गणने धुरीणा पुरी विचित्रैः चित्रैः ।
मेरुचूला इव अनिमेषनेनेः निरीक्षणीया अभवत् ॥ ४३ ॥ व्याख्या---इह-असिन् स्थाने वैभवसंभवेन-वैभवानां-विभू. तीनां सम्भवेन-उत्पत्त्या वैभवकारणेन वा पुरीणां-गण्यनगरीणां