________________
आचार्यश्रीविजयामृतसूरिप्रणीता सरणी टीका. व्याख्या--यद्-यस्माद्धेतोः विस्रसाद्भीरु:-जरात्रस्नुः अनङ्गराजः कामनरपतिः तन्मन्त्रविद्धीरुः-तस्याः-विस्रसायाः मन्त्रवित्गुप्तचरः मन्त्रज्ञो तस्माद् भीमा-भयशीलः अस्ति इति शेषः अतः कारणात तत् स्थानं देशं प्रपन्नः-प्राप्तः कीदृशं तत्स्थानमित्याह--परायोध्यं-परैः-शत्रुभिः अयोध्य-योधनाऽनहम् सहाश्वसेनम्-अश्वानांघोटकानां सेनया-सैन्येन समूहेनेत्यर्थः सहितं, सहास्तिन--हस्तिनां समूहो हास्तिनं तेन सहितं, सन्मधुरं-मधु-मद्यं लक्षणया युद्धाय युद्ध. खेदाऽपनुत्तये वा सुरापानं रान्ति-कुर्वन्ति धातूनामनेकार्थत्वात् ते मधुराः-युद्धपरिश्रमाऽपनोदनार्थ संस्कृतसुरापानशीला वीराः 'वीरपानं तु यत्पानं, वृत्ते भाविनि वारणे, इत्यमरः । वीराणां संग्रामार्थ मद्यपानस्याऽऽचाराऽविरोधित्वात् सन्तः-प्रशस्ता मधुरा यत्र तत् तथोक्तम् । यद्वा सतां मधुरं-प्रियम् । स शौर्यम्-शौर्येण-पराक्रमेण सहितम् ।। अनेन तीर्थंकरजन्माधिकरणीभूतनगराणामन्वर्थनामधेयत्वं, तत्रत्यानां च जनानां सान्द्रदर्प-कन्दर्पसौन्दर्यसोदयहृद्याऽनवद्यरूपशालित्वं सूचितं भवतीति सहृदयविभावनीयम् ।। ४१ ॥ सदारमण्याश्रितदुर्गशैलं,
सक्षत्रियत्वादबहुलक्षणाढ्यम्। सुराजराज्यादरविप्रयुक्तं,
___ रम्यैहाणामुदयैर्विराजत् ॥ ४२ ॥ अन्वयः-सदा रमण्याश्रितदुर्गशैलं सक्षत्रियत्वाद् बहुलक्षणाढ्यं ।
सुराजराज्यादरविप्रयुक्तं रम्यैर्गुहाणामुदयविराजत् ॥ ४२ ॥ व्याख्या--पुनश्च तत्स्थानं कीदृशमित्याह--सदेति सदासर्वस्मिन् काले रमण्याश्रितदुर्गशैलं-दुःखेन गच्छति गम्यते वाऽत्रेतिदुर्ग:-पर्वत-प्राकार-परिखादिदुर्गमकोहः स शैल इवेति दुर्गशैल:-रम