________________
४६
महोपाध्यायश्री मेघविजयगणिविरचिते सप्तसन्धानमहाकाव्ये
क्रमस्य पुरम्-आश्रयः॥
श्रीऋषभदेवरामपक्षयो 'बुद्धध्यापि अयोध्या' इति विशेव्यम्, अपिना नाम्नाऽपि अयोध्या एवेत्यवधार्यम् । श्रीहास्तिनस्थानमित्यस्य हस्तिनां समूहो हास्तिनं, श्रिया हास्तिनस्य च स्थानम् इत्यर्थों विदेलिमः ।
श्रीपार्श्वनाथपक्षे-'शिवपू:' इति विशेष्यं सा च वाराणसी काशीपुरीत्यर्थः अत्रपक्षे वसुश्रिया-धनशोभया जैः वीक्ष्यते इत्यर्थः।।
श्रीमहावीरपक्षे 'श्रीमण्डनब्राह्मणकुण्डसंज्ञया-श्रियाः-लक्ष्म्या मण्डनं-भूषणभूतं यद् ब्राह्मणकुण्डं-तदाख्यं स्थानं तद्रूपसंज्ञया-नाम्ना सुप्रभाता-सुप्रसिद्धा ॥
श्रीकृष्णपक्षे 'मधुरा'-तदपरनाम्नी मथुरापुरीत्यर्थः रसाश्रयैः उपलक्षिता इति सम्बन्धः ।।
श्रीनेमिनाथपक्षे 'शौर्य पुरम्' इति विशेष्यं शेषविशेषण सम्ब. न्धः पूर्ववद्वोद्धव्यः । अर्थश्लेषः । __रसो गन्धरसे वादे तिक्तादौ विष-रागयोः । शृङ्गारादौ द्रवे वीर्य देहधात्व-म्बु-पारदे । रसा तु सल्लकी-पाठा-जिह्वा-धरणि-कङ्गुषु इति विश्वः ॥ ४० ॥ यद्विस्त्रसाभीरु रनगराज,
स्तन्मन्त्रविद्भीरुरतः प्रपन्नः । स्थानं परायोध्य सहाश्वसेनं,
सहास्तिनं सन्मधुरं स शौर्यम् ॥ ४१ ॥ अन्वयः--यद् विस्त्रसाभीरुः अनङ्गराजः तन्मन्त्रविद्भीरुः (अस्ति) अतः तत् स्थान प्रपन्नः पराऽयोध्यं सहाऽश्वसेनं सहास्तिनं सन्मधुरं सशौर्यम् ॥४॥