SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ भाचार्यश्रीविजयामृतसूरिप्रणीता सरणी टीका. १९ गणने-संख्याने एक-द्वि-व्यादिसंख्यया गणनायामित्यर्थः धुरीणामुख्या अग्रगण्येत्यर्थः पुरीनगरी विचित्रैः-विलक्षणे दिव्यरित्यर्थः आश्चर्यजनकैर्वा चित्रः आलेख्यैः हेतुभिः मेरुचूला मेरुपर्वतशिखरमिव अनिमेषनेत्रः-स्पन्दनरहितलोचनैः करणः यद्वा निःस्पन्दनेत्र. शालिभिः जनै रितिशेषः (मेरुपक्षे) अनिमेषनेत्रैः देवैः निरीक्षणीयामस्पृहमवलोकनयोग्याऽभवत् ॥ ४३ ॥ अर्हद्विहारा विविधोपहारा __घुसद्विहारादुरिताऽपहाराः । दिवो विमाना वसुधांवतेरु, स्तत्पूर्वदेवैरिव संगमाय ॥ ४४ ॥ (अन्वयः) (इह) घुसद्विहाराद्-विविधोपहारा: दुरितोपहारा: अह द्विहाराः (शोभन्ते) तत्पूर्वदेवैः सङ्गमाय विमाना: दिव: वसुधा वतेरुः इत्र || ४४ ॥ (व्याख्या) इह युसद्विहारात्-दिवि-स्वर्गे सीदन्तीतिधुसदा देवा स्तेषां विहार-विहरणं श्रीजिनेन्द्र सन्दर्शनार्थ भृयोगमनागमनं तस्मात् विविधोपहारा:-विविधाः नानाप्रकाराः उपहागः पूजोपकरणानि येषु ते तथोक्ताः, दुरितापहारा: दुष्ट मितं गमनं नरकादिस्थानप्राप्तिरनेनेतिदुरित-पापं तस्याऽपहा:-अपचयो विनाश इत्यर्थी येभ्यस्ते तथोक्ताः पापनिवर्तका इत्यर्थः अर्हद्विहाराः जिनायतनानि जिनमन्दिराणीत्यर्थः शोभन्ते इति शेषः । अत्रोत्प्रेक्षते-तत्पूर्व देवः तेषां बुद्धिस्थपरामर्शकत्वात्तच्छब्दस्य विमानानां पूर्व प्राक्तना देवा. इदानीम्मानवास्तैः सह संगमाय-मेलनाय विमानाः व्योमयानानि देवप्रासादा वा दिवा स्वर्गलोकात् वसुधां-पृथिवीम् अवतेरु. अवती. वन्तः इव । एतेन तत्रत्यजनानां दिव्यत्वं तत्रत्यजिनालयानाम_कपशिखरत्व-सुरमणीयत्वादीनि च सूच्यन्ते ॥ अत्रातिशयोक्तिरुत्प्रेक्षाचालंकृती।। ४४ ॥
SR No.008453
Book TitleSaptasandhan Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmrutchandracharya
PublisherJain Sahitya Vardhak Sabha
Publication Year
Total Pages480
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy