________________
४४ महोपाध्यायश्रीमेधविजयगणिविरचिते सप्तसन्धानमहाकाये देवता उपास्यतयाऽस्त्येषां ते तथोक्ताः पंडिता इत्यर्थः अपि विकर्णिका विशिष्टा विविधा वा कर्णिका-लेखनी येषां ते तथोक्ताः नै वेति विरोधः विदुषां देखनसाधनकलमादेर्लिप्या वा राहित्यस्य विरुद्धत्वात् । विगता कर्णिका कर्णभूषणं येषां ते तथोक्ता नैव किन्तु सर्वे सकर्णिका इत्यर्थ इति परिहारः । तथा ते जनाः काः किं रूपाः तेजसां-दीप्ति-पराक्रम-प्रभाव-परप्रयुक्ताऽधिक्षपा-ऽपमानाद्यसहन. सत्वगुण-शरीरकान्तीनां राजी:-श्रेणीः राशीनित्यर्थः नो कलयन्तिधारयन्ति सर्वान गुणान् दधतीत्यर्थः । विरोधाभासः, आभासत्वे विरोधस्य विरोधाभास इष्यते इति तल्लक्षणात् । पूर्वार्धेऽन्त्यानुप्रासः। कर्णिका करिहस्ताग्रे करमध्यांगुलावपि । क्रमुकादिच्छटांशेऽजे, वराटेकर्णभूषणे इति मेदिनी ॥ ३८ ॥ श्रीहास्तिनस्थान ममर्त्यवासवा.
श्रयेण साक्षादमरावती पुरी । बुध्ध्याऽप्ययोध्यामलकालिताश्रिता,
सा वीक्ष्यते ज्ञैः शिवपूर्वसुश्रिया ॥३९॥ श्रीमण्डनब्राह्मणकुण्डसंज्ञया,
या सुप्रमाता मधुरारसाश्रयैः। तां मध्यदेशे जिनजन्मपावितां,
स्थैर्येण वा शौर्यपुरं समीक्षताम् ॥४०॥ अन्वयः-तां मध्यदेशे ( वर्तिनी ) जिनजन्मपाविता (नगरी) स्थैर्येण समीक्षताम् । हास्तिनस्थानम् , (या) पुरी अमर्यवासवाश्रयेण साक्षादमरावती. (तथाऽसौ) बुध्ध्यापि अयोध्या आमलकाश्रिताश्रिता. (अत एव सा पुरी) जै! वसुनिया शिवपः वीक्ष्यते (पुनश्च ) या श्रीमण्डनमाह्मणकुण्डसंहया सुप्रभाता