________________
आचार्यश्रीविजयामृतसूरिप्रणीता सरणी टीका, शया सार्वदिकतयाऽतिमात्रः आशयः शयनं तेन तथोक्तेन उपलक्षित इत्यर्थः । तथा कमलाऽनुषङ्गैः कमलायाः-लक्ष्म्याः यद्वा कमलस्य हस्तस्थपद्मस्य शयनाश्रयभूतजलस्य वा अनुषङ्गैरुपलक्षि. तः ॥ ' स्वयम्भुवः' इतिपदेन स्मर्यमाणो ब्रह्मा शिवश्च 'कमलाऽनु. षङ्गैः (ब्रह्मपक्षे)कमलस्य-आसनीभूतपद्मास्य' ब्रह्मण कमलासनत्वात्, शिवपक्षे कमलस्य हस्तलालनीयमृगविशेषस्य अनुषङ्गैः-सम्बन्धैरुपलक्षितः ।। रूपकाऽलङ्कारः । कमलं सलिल ताने कोग्नि-भैषज्य पअयोः । कमलो मृगभेदे तु, कमला श्रीवरस्त्रियोरिति मेदिनी ॥३७॥ ये कामरूपा अपि नो विरूपाः,
कृताऽपकारेऽपि न तापकाराः। सारस्वता नैव विकर्णिकास्ते,
कास्तेजसां नो कलयन्ति राजीः ॥३८॥ अन्वयः--ये कामरूपा भपि विरूपाः नो कृतापकारेऽपि म तापकाराः । सारस्वता अपि विकर्णिकाः नैव. ते कास्तेजसा राजी: नो कलयन्ति. ॥ ३८ ॥
व्याख्या-ये जनाः कामरूपाम्कन्दर्पस्वरूपाः कामस्य अनगत्वात् नीरूपा अपि विरूपाः विगतं रूपं येषां ते तथोक्ताः रूपरहिता नो-न इति विरोधः कामरूपाः इच्छारूपिणः विरूपा विरुद्धं रूपं-स्वभावः वेशो वा येषां ते तथोक्ता न देशकालाऽनुसारवेशशालिन इत्यर्थः इति परिहारः कृताऽपकारे-साऽपराधेऽपि जने विषये न ताऽपकारा:-नतानां विनयादिनम्राणामपकारः अनिष्टोत्पादनं तद्धेतु द्वेषो वा येभ्यस्ते तथोक्ता इति विरोधः, तापकाराः तापं सन्तापं कष्टं वा कुर्वन्ति जनयन्तीति ते तथोक्ताः कष्टप्रदाः प्रत्यपचिकीर्षवइत्यर्थः न, इति परिहारः ॥ सारस्वता:-सरखती-वागधिष्ठात्री देवी