SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ ४. महोपाध्यायश्रीमेघविजयगणिविरचिते सप्तसन्धानमहाकाव्ये अन्वयः-यत्सूपदेशः लावण्यसुसंस्कृतार्थैः बहधान्यकार्य करोति तस्य विशा. लिता सरोऽनुसारात् ततोऽन्यस्य [प्रदेशः] कूपदेशः क्षुद्रः ॥ ४५ ॥ व्याख्या-यत्सुपदेशः यस्य देशस्य सूपदेशः-शोभन उपदेशः समीपवर्तिदेशः प्रदेश इत्यर्थः लावण्यसुसंस्कृतार्थैः-लावण्येन सौन्दर्यण सुसंस्कृतैः-परिष्कृतैः अथै वस्तुभिः करणः बहुधान्यकार्यबहूनां धान्यानां-शालि-गोधमादिब्रीहीणां कार्य करोति-सम्पादयति । तस्य-देशस्य विशालता-वैपुल्यं विस्तार इत्यर्थः सरोऽनुसारात-महासरःसदृशीत्यर्थः । ततोऽन्यस्य-तद्देशसम्बन्धरहितदेशस्य प्रदेशः कूपदेशः--कुत्सित उपदेशः सभीपदेशः तत्स्वरूप इत्यर्थ कूपअन्वितो देशो का अत एव क्षुद्रः--तुच्छः वासाऽनह इत्यर्थः ॥ पद्यस्यास्यार्थान्तरमपि श्लेषमहिना ध्वनितं भवति. तथाहियत्रूपदेश:-यस्य पण्डितस्य शोभन उपदेशः-हिताऽनुशासनम् लावज्येसुसंस्कृतार्थ-लावण्येन प्रसादादिगुणसौन्दर्यण सुसंस्कृतैः-अतीवभूषितः सुसम्परित्यर्थः अथै-वाच्यैः अभिधेयरित्यर्थः बहुधाबहुप्रकारेण अन्यकार्यम्-अन्यत्कृत्यम् उपदेशातिरिक्त माहादादिकार्य करोति-जनयति । तस्य-उपदेशस्य विशालिता-विस्तारः सरोऽनुसारात सरः ज्ञानं तदनुसारेण. ततः तस्मात् अन्यस्य उपदेशादिः कुसदेशः कुत्सित उपदेशः अत एव क्षुद्रः तुच्छत्वादग्राह्य इत्यर्थः सारस्य मावश्यकमेव तस्य, प्रशस्यते शस्यधिया जलस्य । यत् प्राणिनां जीवनमेतदन्यः, स जातवेदा अपि भस्मशेषः ॥३६॥
SR No.008453
Book TitleSaptasandhan Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmrutchandracharya
PublisherJain Sahitya Vardhak Sabha
Publication Year
Total Pages480
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy