SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ आचार्यश्रीविजयामृतसूरिप्रणीता सरणी टीका. पटीयसां मुनिपुणानां सुकवीनां प्रवेशो यत्र सः पक्षे तट्यांकुले वेलाया मित्यर्थः पटीयसां शुकवीनांशुकपक्षिणां यद्वा सुष्ठु कायन्ति-शब्दायन्ते इति सुका स्तादृशा वयः पक्षिण स्तेषां प्रवेशो यत्र सः रलयोर्डलयो चैत्र, श-सयो - वयोस्थेतिवचनेन श-सयोरेकत्व • स्मरणात् । पुनश्च पदे पदे = प्रतिपदं प्रतिस्थानमित्यर्थः प्राप्तवसूपदेशः प्राप्तः = उपस्थितः लोकैर्लब्धो वा वसुः मधुरः मनोज्ञः उपदेश: =शास्त्रीय धार्मिक-राजनैतिकाद्यनुशासनं यत्र सः यहा समृद्धजनशालितया व्यापारिजनवत्तया वा प्रतिस्थलं प्राप्तः वसूनां धनानां रत्नानां वा स्वर्णानां वा उपदेशः योग- क्षमाद्यनुशासनं यत्र स तथोक्तः । अथवा पदे पदे = प्रतिव्यवसाय:- प्रत्युद्यमं प्राप्तः वसोः धनाधिपस्य कुबेरस्य तद्विषयक इति तात्पर्यम् उपदेशः =अध्यवसायादिसहायेनाऽनन्तकोटिधनाधिपत्यशालित्वादेराख्यानं यत्र सः अथवा प्राप्तानि खानितोऽधिगतानि वसूनि रत्नानि स्वर्णानि यत्र तादृश उपदेश:समीपदेशः खान्यादिप्रदेशो यत्र स तथोक्तः । समुद्र पक्षे प्रतिस्थानं= प्रतिकूलप्रदेश प्राप्तानि = प्रोच्छलनेन गतानि वसूनि =जलानि यत्र तादृश उपदेश: समीपदेशो वेलाप्रदेशो यस्य सः यद्वा समुद्रस्य रत्नाकरतया प्रतिपदं प्रतिचरणन्यासदेशं प्राप्तानि -: लोकैरधिगतानि वसूनि - रत्नानि यत्र तादृश उपदेशो वेला यस्य सः तथोक्तः । अत्र श्लेपालंकारः ॥ ३४ ॥ यत्सूपदेशो बहुधान्यकार्य, करोति लावण्यसुसंस्कृतार्थैः । विशालतातस्य सरोऽनुसारात्, ३९ क्षुद्रस्ततोऽन्यस्यनुकूपदेशः ॥ ३५ ॥
SR No.008453
Book TitleSaptasandhan Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmrutchandracharya
PublisherJain Sahitya Vardhak Sabha
Publication Year
Total Pages480
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy