SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ ३८ महोपाध्यायश्रीमेघविजयगणिविरचिते सप्तसन्धानमहाकाव्ये सदा नदेशः किमु दान देशः, समाश्रयत्सर्वरसाऽनुवेशः । तटी पटीयः शुकविप्रवेशः, पदेपदे प्राप्तवसूपदेशः ॥ ३४ ॥ अन्वय-(असौ देशः) नदेश: किमु ? दानदेशः समाश्रयत्सर्वरसाऽनुवेशः तटीपटीय: शुकविप्रवेशः पदे पदे प्राप्तवसूपदेशः ॥ ३४ ॥ व्याख्या--असौ देशः समुद्रः किमु वर्तते इति शेषः इत्युत्प्रेक्षा. उभयोः समान शब्दवाच्यत्वरूपसाधर्म्य मुत्प्रेक्षाबीजभूतमाह दानदेशादानं-वितरणीयार्थं ददाति-प्रयच्छन्तीति दानदा: दान. शीला ईशाः अधिपतयो यत्र स तथोक्तः, समुद्रपक्षे-दानदः धनदः कुबेरः ईशोयस्य सः. समुद्रस्य रत्नाकरत्वात्कुबेरस्य धनाधिपत्वात्कुबेरे समुद्रपतित्वमुपचर्यते । यद्वा दं-पर्वतं मैनाकलक्षणम् आनयति-पर्वपर्वतपक्षच्छेदनाग्रहिलपुरन्दरभिदुरप्रहारात त्राणकरणेन जीवयतीति दान स्तादृशो देश: प्रदेशो यस्य स तथोक्तः । समाश्रयत्मर्वरसानुवेशः समाश्रयन् सर्वः सकलः रसः माधुर्यादिरूपो यां सा समाश्रयत्सर्वरसा-पृथ्वी तस्याम् अनु अनुक्रमेण व्याप्ता वा वेशाः गृहाणि यत्र सः, यद्वा समाश्रयताम् आश्रयमन्विच्छतां सर्वरसानां पण्डितानाम् अनुवेशःप्रवेशो यत्र सः अथवा समाश्रयतां निवस्तुमिच्छतां सर्वेषां सकलानां जनानां रसायां-पृथिव्यां चास्त्वहभूमावित्यर्थः अनुवेशः समावेशो यत्र स तथोक्तः तत्रत्यप्रदेशाना मति विस्तीर्णत्वात्सर्वेषां तद्देशनिवासार्थिनां कृते तत्रावकाशस्य पर्याप्तत्वात् । समुद्रपक्षे-समाश्रयन्तीनां सर्वरसानां नदीनाम् अनुवेशः प्रवेशः समावेशो वा यत्र सः यद्वा समाश्रयतां सर्वेषां रसनां जलानां अनुमर्यादानति क्रमेण समावेशो यत्र स तथोक्तः। तटीपटीयः शुकविप्रवेश:-तट्यां
SR No.008453
Book TitleSaptasandhan Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmrutchandracharya
PublisherJain Sahitya Vardhak Sabha
Publication Year
Total Pages480
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy