________________
भाचार्यश्रीविजयामृतसूरिप्रणीता सरणी टीका.
स्तै स्तथोक्तः गम्यः, न तु परार्थहद्भिः-परेषाम्-अन्येषाम् अर्थ-धनं वस्तु वा हरन्ति-मुष्णन्ति ते स्तथोक्त चौरादिभिः गम्यः । चापरागैः-चापे-धनुषि रागः-प्रीतिर्येषां ते ते स्तथोक्तैः शूरेरित्यर्थः गम्यः-समासाद्यः तद्देशस्थजनानां धनुर्विद्याप्रियत्वात्तत्र तेषां प्रवेशसम्भवः न तु तत्रत्यानां भयशालितयेति बोद्धव्य मन्यथा देशनिन्दासंभवात् । न तु अपरागैः-अपगतो रागः-प्रीतिर्येषां तेऽपरागास्त स्तथोक्तः गभ्यः विरोध नामालंकारः ॥ ३२ ॥ कुतूहलेनोद्वहनं स्मृजन्ति,
कुतूहलेनोद्वहनं सृजन्ति । यदेशवास्तव्यजनाः परोपजापे,
प्रसक्ता न परोपजापे ॥ ३३ ॥ अन्चयः-यद्देशवास्तव्यजना कुतूहलेन उद्वहनं सृजन्ति कुतूहलेन उद्वहनं सृजन्ति परोपजापे प्रसक्ताः परोपजापे न (प्रसक्ताः) (आसन्) ॥ ३३ ॥
व्याख्या-यदेशवास्तव्यजनाः यद्देशचतुष्टयनिवासिनो लोका: कुतूहलेन-कौतुकेन उद्वहनम्-उद्वाहं परिणय मित्यर्थः सृजन्तिकुर्वन्ति. कुतूहलेनकौतुकेन-जनितः पुत्रः कदाचित्तीर्थङ्करगोप्रवन्धनेन संयमधारणादिना वाऽसत्कुलंतारयेदित्यभिलाषेनेत्यर्थी उद्वहनम्-उद्वहतिवनयति पित मान वंश्या नित्युद्वहन:-पुत्रस्त सृजन्ति-उत्पादयन्ति । परोपजापे-परः श्रेष्ठः उपजापा-उपांशुजफ: तस्मिन् प्रसक्ताः-व्यापृताः लीनमनस इत्यर्थः, किन्तु परोपजापरेषाम् अन्येषां, परः उत्कृष्टो वा उपजापा-मेदः विच्छेदः संहतयोद्वैधीकरणमिति यावत् परोपजापः तस्मिन् तथोक्ते न प्रसक्ता इत्यर्थः। लाटानुप्रासः विरोधाभासश्च । मेदो-पजापौ इत्यमरः ॥३३॥