________________
३६ महोपाध्यायश्रीमेषविजयगणिविरचिते सप्तसन्धानमहाकाम्ये वित्यर्थः भूपैः गीयते-स्तूयते वर्ण्यते इत्यर्थः । कीदृशै भूपैरित्याह
शैलाविभागैः-शैलतःपर्वतात् अविभागो येषां ते तैः स्थैर्ये दाढय च गिरिकल्परित्यर्थः। दृढ़सानुरागैः-दृढ़ः सानुषु-कोविदेषु रागः-- प्रीतिर्येषां तै स्तथोक्तैः । तपस्विपादोचितसंविभागैः-तपखिपादाः पूज्यतपखिनः तेषा मुचितः-योग्यः संविभागो येषां तैः स्तथोक्तैः। खरूपेण-आकृत्या शचीशरूपैः-शचीशः-इन्द्र स्तस्येव रूपं-स्वभावः सौन्दर्य वा येषां ते, तैः इन्द्रात्मकै , भूपैरिति सम्बन्धस्तूक्त एव ॥ सानु रस्त्री वने प्रस्थे वात्या-मार्गा-ऽग्र-कोविद इति मेदिनी ॥३१॥ गम्यः सुहृद्भिर्न तथाऽसुहृद्भिः,
कलाधराणां न कलाऽधराणाम् । परार्थहृद्भिर्न परार्थहद्भिः,
स चापरागै नतु चापराऽगैः ॥ ३२॥ अन्वयः-तथा सः ( देशः ) सुहृद्भिः गम्यः असुहृद्धि नं. कलाधराणां (गम्यः) कलाऽधराणां न, परार्थहन्द्रिः (गम्य:) परार्थहृद्धि न, चापरागैः (गम्यः) अपरागैर्न ॥ ३२ ॥
व्याख्या-' तथा ' इति पूर्वसन्दर्भसम्बन्धार्थम् । देश इति विशेष्यं पूर्वतोऽन्वेति, स सुहद्भिः-मित्रैः गम्यः-प्राप्यः, (मित्रं सखा सुहृत इति. प्राप्यं गम्यं समासाद्य मितिचाऽमरः ।) न तु असुहृद्धिः शत्रभिः, असूना-प्राणानां हृद्भिः-अपहारकेर्वा हिंस्त्रैर्वा कलाधराणां कलाः चतुषष्टिप्रकारा गीतवाद्यादिरूपाः धरन्ति-दधति ते कलाधरा स्तेषां गम्यः । न तु कलासु-उक्तरूपासु विषये अधराः-नीचाः कलारहिता इत्यर्थ स्तेषां यद्वा दत्तधनस्याधिकलभ्यांशं वा घरन्तीति ते तथा तेषां तथोक्तानां गम्यः । परार्थहद्भिः-परार्थम्अन्यार्थ परोपकारपरायणमित्यर्थः हृत्-हृदयं-मनो येषां ते परार्थहद