SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ आचार्यश्री विजयामृतसूरिप्रणीता सरणी टोका. परोपकारादिलसद्विधानै, ३५ नेषु नेयः सुधियां प्रधानैः ॥ ३० ॥ अन्वयः - - - सदागमानां द्विधापि फलितैः ससंनिधाने बहुधा निधानैः (उपलक्षितैः) परोपकारादिलसद्विधानैः सुधियां प्रधानैः ध्यानेषु नेयः ॥ ३० ॥ व्याख्या --- सदागमानां सत्सिद्धान्तानां द्विधापि द्विविधैरवि ज्ञानक्रियारूपैः फलितैः फलैः, यद्वा सदागमानां = सन् - प्रशस्तःआगमः - आयः येषां ते सदागमा स्तेषां न्यायोत्पन्नानां धनाना मित्यर्थः द्विवापि फलैः- दान - भोगरूपैः स संनिधानैः - सन्निधानेन - समीपवासेन सहितैः यद्वा सत् - प्रशस्तं निधानम् - आश्रयः, कार्यावसानं वा तेन सहितैः । बहुधा - बहुप्रकारकैः निधानैः - शङ्ख- पद्मादिनिधिभिः उपलक्षितैः । परोपकारादिलसद्विधानैः -- परोपकरणप्रभृतिमि र्लसद्भिः- मनोहरैः विधानैः कर्मभि रुपलक्षितैः । यद्वापरोपकारादीनि लसन्ति-शोभनानि विधानानि कर्माणि येषां तैस्तथोक्तः । सुधियांसुबुद्धिशालिनां पण्डितानां वा मध्ये प्रधानैः - मुख्यैः उपलक्षितः असौ देशः ध्यानेषु - चिन्तनेषु नेयः प्राप्यः सर्वदा ध्यातव्यः श्लाध्यगुणत्वेनेति भावः उदात्तालंकारः ॥ ३० ॥ शैलाविभागे दृढ़सानुरागै, स्तपस्विपादोचित संविभागैः । भूपैः स्वरूपेण शचीशरूपै, योगीयते दिव्यसदस्सु देशः ॥ ३१ ॥ अन्वयः - दिव्यसदस्सु शैलाविभागः दृढ़सानुरागैः तपस्विपादोचित संविभागः स्वरूपेण शचीशरूपैः भूपैः यः देशः गीयते ॥ ३१ ॥ व्याख्या -- यः देशः दिव्य सदस्सु-स्वर्गीय सभासु सुधर्मादि
SR No.008453
Book TitleSaptasandhan Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmrutchandracharya
PublisherJain Sahitya Vardhak Sabha
Publication Year
Total Pages480
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy