SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ आचार्यश्रीविजयामृतसूरिप्रणीता सरणी टीका. ४१ अन्वयः-(तत्रदेशे) यत् प्राणीनां जीवन (वर्तते) तस्य जलस्य सारस्यमावश्यकमेव इति कृत्वा शस्यधिया (तत्) प्रशस्यते एतदन्यः स जातवेदाऽपि भस्मशेषः । अथ च तस्य जल( ड )स्य सारस्य मावश्यकमेव, यत् प्राणिनां जीवनम् ( असौ सरसश्च ) शस्यधिया प्रशस्यते एतदन्यः सजातवेदा अपि भस्मशेषः ॥ ३६ ॥ व्याख्या-किंच तत्र देशे यत् प्राणिनां-जन्मिनां जीवन-प्राणधारणकारणं वर्तते इति शेषः तस्य जलस्य सारस्य-सरसता मधुररससाहित्यं वा स्वादुत्वं वा आवश्यकमेक-अवश्यप्रयोजनीयमेव । इति कृत्वा शस्यधिया-शालि-गोधूमादिधान्यबुद्धया अनेन धान्योत्पत्ति रित्यनुसन्धायेत्यर्थः प्रशस्यते श्लाघ्यते । एतदन्या जलाऽतिरिक्तः साम्प्रसिद्धः जातवेदाःजातान् प्राणिनो विन्दते जठराऽनलत्वेन इति जातं वेदो-धनं यस्मात् इति वा, जाते जाते विद्यते इति वा जातं वेत्ति, वेदयते वा, इति वाम तथोक्तः वह्निः अपि भस्मशेषःभस्मपर्यवसान इति कृत्वा न प्रशस्यते । तत्र हि देशे जलातिरिक्तवस्तुना नोपकरणार्हता सर्वेषां सर्वसमृद्धिसम्पन्नत्वात् । श्लेषमहिनाऽस्य पद्यस्याऽर्थान्तरमपि प्रतीयते, तथाहि-तस्य जलस्य-जडस्य मूर्खस्येत्यर्थः रलयो ईलयोश्चैकत्वस्मरणात्, सारस्यम् सरसस्य भावः रसिकता वैदग्थ्यमितियावत् आवश्कमेव, यच्च प्राणिनांसहृदयजनानाम् जीवनं प्राणरूपम् अन्यथा सहृदयत्वाऽनुपपत्तेः । असौ (सरसः) शस्थधिया प्रशंसनीयमतिना प्राज्ञेनेत्यर्थः प्रशस्यते सबहुमानं श्लाव्यते। एतदन्यः विदग्ध (सरस) भिन्नः पुरुषः सजातवेदाः जातवेदसा हव्यादितपणीयवाहिना सहितः ऋत्विगादिः अपि भस्मशेषःभस्मतुल्यः न गण्य इत्यर्थः । सरसजनाऽपेक्षया वैदिकानामनुत्तमस्वमिति साहित्यवासनावासिताऽन्तःकरणानां सहृदयताचणानां सुप्रसिद्धम् ॥
SR No.008453
Book TitleSaptasandhan Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmrutchandracharya
PublisherJain Sahitya Vardhak Sabha
Publication Year
Total Pages480
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy