SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ आचार्यश्रीविजयामृतसरिप्रणीता सरणी टीका. २९ Purwwwwwwwwwwwna इति शेषः। निगमश्च आयासवर्ज रत्नप्रसक्त इति सम्बन्धः। निगमः वणिक्पथः आयासवर्ज रत्नार्थ प्रसक्ताः प्राप्ता लीना वा लोका अत्र स रत्नप्रसक्तः आसीत् इति शेषः ।। २४ ॥ निगमो वाणिजे पुर्यां कटे वेदे वणिक्पथे इति विश्वः । क्षितिशान्त्योः क्षमा इत्यमरः माया स्याच्छाम्बरीबुद्धयोरितिमेदिनी ।। मन्ये तदा रामपदं जगत्याः, साम्राज्यरूपं भरतं यतः सा । श्रीदे-वरत्वाश्रितलक्ष्मणाशां, सीतापि लेभे धरणी प्रतीता ॥ २५ ॥ अन्वयः-तद् भरतं जगत्या आरामपदं साम्राज्यरूपं मन्ये यतः प्रतीता सीतापि धरणी श्रीदेऽवरत्वाश्रितलक्ष्मणाशां लेभे अथ च तदा जगत्याः साम्राज्यरूपं रामपदं भरतं मन्ये यत:धरणीमतीतासीताऽपि श्रीदेवरत्वाश्रितलक्ष्मणाशा लेभे, यद्वा श्रीदेवरत्वाश्रितलक्ष्मणा सीता यत आशां लेभे ॥ २५ ॥ व्याख्या-तद्भरतं तदाख्यविस्तृतशोभनक्षेत्ररत्नं जगत्याः पृथिव्या भुवनस्य वा आरामपदं विश्रामस्थानम् उपवनस्थानं वा ". आरामः स्यादुपयनं कृत्रिमं वनमेव यदित्यमरः” साम्राज्यरूपम् सर्वैश्वर्यरूपं च मन्ये उत्प्रेक्षे यतः यस्मात् भरतक्षेत्रात् प्रतीता प्रसिद्धा सीता हलोत्कृष्टापि सा धरणी रत्नप्रभाभिधाना श्रीदेवरत्वाश्रितलक्ष्मणाशा श्रीदे-धनदेऽवरत्वेन न्यूनत्वेन अनिष्टत्वेन वा आश्रितं युक्तंन्यू. नत्वसूचकं यत् लक्ष्म चिन्हं रत्नादि तेन श्रीदे-वरत्वाश्रितलक्ष्मणा उपलक्षिता आशा दिक् तां दक्षिण दिशामित्यर्थः लेमे, प्राप.॥ २५ ॥ अथ च तदा श्रीरामचन्द्रवनवासकाले जगत्याः साम्राज्यरूपं रामपदं दाशरथिरामस्थानं भरतं कैकयीसुतं मन्ये यतः यस्मात् भरतान यनिमित्तमित्यर्थः धरणीप्रतीता थरण्याः पृथिव्याः सकाशाद प्रतीता
SR No.008453
Book TitleSaptasandhan Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmrutchandracharya
PublisherJain Sahitya Vardhak Sabha
Publication Year
Total Pages480
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy