________________
२८ महोपाध्यायत्री मेघविजयराणिविरचिते सप्लसन्धानमहाकाग्ये युज्यते महानन्दोऽमृतं सिद्धिः कैवल्पमपुनर्भवः । शिवं निःश्रेयसं श्रेयो, निर्वाणं ब्रह्म निर्वृतिः इति हेमचन्द्रः ॥ २३ ।। क्रीड़ाऽऽस्पदं यद् भरतं रमाया,
जनस्ततोऽस्मिश्चरतः प्रमायाम् । रत्नप्रसक्तो निगमः क्षमाया,
__ मायास वर्ज बहुलक्षमायाः ॥ २४ ॥ . अन्वय-यद् भरतं स्माया: क्रीडास्पदं ततः अस्मिन् जनः प्रमायां रतः, रवप्रसक्तः बहुलक्षमाया निगमः क्षमायाम् आयासवर्ज (निरतः) । यद्वा बहुलक्षमायाः क्षमायां (निरताः) निगम आयासवर्ज रत्नप्रसक्त (आसीत् ॥ २४ ॥
व्याख्वा-यद्-यस्मात् कारणात् भरतं-भरतक्षेत्रं रमाया:लक्ष्म्याः क्रीडास्पद-विलासस्थानं सार्वदिकस्थितिस्थानमित्यर्थः नित्यनिवासस्थानभूतमिति भावः ततः-तस्मात् भरतक्षेत्रे लक्ष्म्यानित्य. निवासित्वेन लोकानां शरीरस्थितिचिन्ताद्यभावात् हेतोः जनः-लोकः प्रमायां-अमिती यथार्थज्ञाने तत्साधनकर्मादावित्यर्थः रतः-सक्तः तल्लीनमना इत्यर्थः रत्नप्रसक्तः-रत्रसंग्रहतत्परः बहुलक्षमाया:-बहवः अने के लक्षाः-लक्ष्या अनुकम्पनीयतया आश्रयणीयतया वा उद्देश्या यस्याः सा बहुलक्षा, सा चासौ मा बहूनां लक्षाणाम्-अयुतपंक्तीनां समाहारः बहुलक्षं तदात्मिका वा मा-लक्ष्मीस्तां याति-प्राप्नोत्यध्यवसायादिनेति स तथोक्तः " या प्रापणे, विच्" निगमः-वाणिजः व्यवसायिजन इत्यर्थः क्षमायां-पृथिव्यां आयासवर्जमर्जनक्लेशरहितं यथा तथा निरत इत्यर्थः पृथिव्या रत्नगर्भत्वात् । यद्वा बहूनि लक्षाणि लक्ष्याणि विषयतया यस्या सा बहुलक्षा तादृशी माया-बुद्धिर्येषां ते तथोक्ताः प्रभूतविषयाऽवगाहिबुद्धिशालिनः विवेकिन इति यावत् क्षमायां-शान्तो तत्प्रधानकर्मणि मुनिव्रतग्रहणादावित्यर्थः निरता