________________
आचार्यश्रीविजयामृतरिप्रणीता सरणी टीका. स्कन्धांशुकं श्रीभरतस्य गङ्गा,
यज्ञोपवीतं शुचि तस्य सिन्धुः । नास्मिंस्ततो वैषयिको विकारः,
सिद्धं शिवं ब्रह्मपदं तदेतत् ॥ २३ ॥ अन्वयः-गला श्रीभरतस्य स्कन्धांशुकं, सिन्धुः तस्य शुचि यज्ञोपवीतं ततः अस्मिन् वैषयिकः विकारः न तदेतत् सिद्धं शिवं ब्रह्मपदम् अस्ति ॥ २३ ॥
व्याख्या-गङ्गा श्रीभरतक्षेत्रराजस्य स्कन्धांशुकं स्कन्धोतरीयं पूजा-जप-ध्यानादिकालीनस्कन्धधार्ययोगपट्टः । सिन्धुश्च तस्य% भरतक्षेत्रस्य, शुचि-पवित्रं यज्ञोपवीतं यज्ञसूत्रं वामस्कन्धत आरभ्यदक्षिणकुक्षि--पृष्ठवेष्टकविप्रधाोपवीतसूत्रमित्यर्थः, ततः तस्मात् कारणात् असिन्-भरतक्षेत्रे निवासिनां जप-ध्यानादि लीन मनसां वा, वैषयिका-विषिणोति-स्वात्मकतया विषयिणं निरूपयति इति वि. षया-भोगसाधनं स्रक्चन्दनवनितादिः, इन्द्रियगोचर शब्द-रूपादिश्च देशश्च तेन-- विषयेण निवृत्तो वैषयिकः विषयजनितः विकारः विकृति श्चेतसोs. न्यथाभावः न अस्तीति शेषः । तत् तस्मात् विषयजन्यविकाराऽनु. त्थानाद्धेतोः एतत् भरतक्षेत्रं सिद्ध-सिद्धिः योगादिसिद्धिरस्ति अ. सिन् अर्शआद्यच् सिद्धिसम्पादकं शिवं कल्याणावहं निरुपद्रवं वा ब्रह्मपदं-ब्रह्म-ब्रह्मचर्य तस्य पदं-स्थानं, यद्वा ब्रह्म-महानन्दः मोक्ष इत्यर्थः तस्य पदं-साधनस्थानम् आम्नातं पूर्वसूरिभिरिति शेषः । खर्गादीनां भोगभूमित्वात्तत्रकर्मानुष्ठानाऽनधिकारात्. अस्य तु भरतक्षेत्रस्य कर्मभूमित्वेनाभिमतत्वान्मोक्षसाधनकर्माऽऽचरणे प्रवृत्त्या भवन्ति भव्या मोक्षाधिकारिण इति भरतक्षेत्रस्य मोक्षसाधनस्थानत्वं