________________
ww.
rrmerama
२६. महोपाध्याय श्रीवविजयगणिविरचिते सप्तसन्धानमहाकाव्ये - सा दक्षिणा सिन्धुसरिद रसाने,
तयोः पथस्ते नयने च मन्ये ॥ २१ ॥ अन्वयः-अस्य मूर्धा हैमाद्रिः, रोहिता अमुष्य चला स्यात् घुसरित् वामाभूः सिन्धुसरिद् दक्षिणा सा, रसाने तयोः पथः ते नयने मन्ये ॥२१॥
व्याख्या-अस्य-क्षेत्रावनीशस्य मूर्धा-शिरस्थानं हैमाद्रिः हेमवान् पर्वतः । रोहिता-तन्नामिका हैमवताऽभिधक्षेत्रवाहिनी नदी अमूष्य क्षेत्रस्य चूला-चूडा शिखास्थानी येत्यर्थः । धुसरि-आकाशगंगा हैमवतशिखरिशिखरप्रपतङ्गङ्गाप्रवाहः वामा-सव्यभागीया भ्रूः नेत्रोपरिस्थरोमराजिः, सिन्धुः दक्षिणा भ्रूः । रसा-जिक्षा इव रसा-नदीनिर्गमनलिका तस्या अग्रे-अग्रभागे उपरीत्यथः तयोः= सिन्धुगङ्गयोः पथ:=मार्गः ते प्रसिद्ध नयने नेत्रे मन्ये-उत्प्रेक्षे इत्यर्थः उत्प्रेक्षा. ॥ २१ ॥ पूर्वापरौ तोयनिधी च बाहू,
तन्मध्यदेशः स तु मध्यभागः। नाभिः कुशावर्तपदेऽदसीया
स्याज्जङ्गलस्तद्गलनालदेशः ॥ २२ ॥ अन्धयः-पूर्वापरौ तोयनिधी [ अस्य ] बाहू, स मध्यभागः तु तन्म- . ध्यदेशः । कुशावर्तपदे ऽदसीया नामिः, जङ्गलः तद्गलनालदेशः स्यात् ॥२२॥
व्याख्या-पूर्वापरौ पूर्व पश्चिमौ, तोयनिधी-समुद्रौ अस्य भरतक्षेत्रस्य बाहू भुजस्थानीयौ. सम्प्रसिद्धः मध्यभागः मध्यप्रदेश तन्मध्यदेशः तस्य भरतक्षेत्रस्य मध्यमावयवः । कुशावर्तपदे अमुव्य इयमदसीया-भरतक्षेत्रसम्बन्धिनी नाभिः तत्स्थानमित्यर्थः । जगालः कान्तारभूयिष्ठदेशः तद्गलनालदेशः तस्य भरतक्षेत्रस्य कपठभागः बोधव्यः ॥ उत्पेक्षा. ॥ २२ ॥