________________
२५
आचार्य श्रीविजया मृतसूरिप्रणीता सरणी टीका.
विद्याधराणां श्रेण्यौ - वैताढ्य पर्वतस्य दक्षिणोत्तर श्रेण्यौ ओष्ठपदं = ओष्ठस्थानं दधाने ओष्टस्थानीये इत्यर्थः । प्रसिद्धे - ख्याते भूषिते वा ते प्राग्दर्शित स्वरूपे सिन्धुगङ्गे श्मश्रुणी - पुम्मुखरोमराजी इव भातःश्रोते। स्यादर्यः स्वामि वैश्ययोरित्यमरः । प्रसिद्धौ ख्यातभूषितौ इति चामरः । तनूरुहं रोम-लोम तद्वृद्धौ श्मश्रु पुंमुखे इत्यमरः ||१९|| क्षेत्राऽवनीशोऽब्धिदुकूलवास
स्तत्र प्रभासो मगधाधिवासः ।
पादौ वराद् दामगिरिर्नितम्बः,
*
क्षेत्रस्य नास्त्येव ततोऽस्यविम्बः ||२०|
अन्वयः - क्षेत्राविनीशः अदिधदुकूलवासः तत्र प्रभासः मगधाधिवासः च पादौ वराद्दामगिरिर्नतम्बः ततोऽस्य क्षेत्रस्य विम्ब नास्त्येव ॥ २० ॥
"
1
व्याख्या - अवन्यामवनिं वा ईष्टे इत्यवनी क्षेत्रस्याऽवनीद् तस्य क्षेत्राविनीशः = क्षेत्र पृथ्वीपतेर्भरत क्षेत्रस्य अब्धिदुकूलवासः =दुकूलम्=अन्तरीयक्षौमयुगलं तदात्मकं वासः = वस्त्रं दुकूलवासः, अब्धिः लवणसमुद्रः एव दुकूलवास इति स तथोक्तः । तत्र = भरत क्षेत्रे वर्तमानौ - प्रभासः=स्वनामख्याततीर्थविशेषः, मगधाधिवासः मगधाधिपदेबस्य वासस्थानं मागधतीर्थम् च इमौ द्वावपि पादौ चरणस्थानीयौ । वराद्दामगिरिः=वरदामनामा शाश्वतपर्वतः नितम्बः कटिप्रदेशः । ततो हेतोः अस्य क्षेत्रस्य विम्बः - प्रतिकृतिः सादृश्यमिति यावत् नास्त्येव । क्षौमं दुकूलं स्यादित्यमरः । अतिशयोक्तिरलंकारः उस्प्रेक्षा वा ॥ २० ॥
मूर्धाऽस्य हैमाद्रि रमुष्य चूला
स्याद्रोहिता
सरिच्च वामा ।