________________
२४ महोपाध्यायश्रीमेधविजयगणिविरचिते सप्तसन्धान महाकाव्ये काचित् जड़:-मूढः, शिशिरः (शैत्यं) वा तस्य प्रसङ्गात् वृतचारुवारुणी स्वीकृतरुचिरमदिरा भवति । पुनः कीदृशी इतस्ततः नौनि. भृतार्थतारिणी नावा=नौकयानावि वा निभृतान् धृतान् गुप्तान वा निभृतं-निश्चलं यथा तथेति वा अर्थान् वस्तूनि धनानि वा तारयति= परपारंनयति तच्छीला सा तथोक्ता । वसुप्रकाशैः-चसोः सूर्यस्य वसूनां देवानां वा मणीनां वा प्रकाशैः प्रतिबिम्बनैः यद्वा वसुषु= तोयेषु प्रकाशैः प्रतिबिम्बायुद्योतैः सुरान्देवान् विप्रतारयितुं शीलमस्याः सा तथोक्ता । वसूनां जलानां प्रकाशः सुरानदेवान् विप्रान् ब्राह्मणान् च तारयति तच्छीला ।
जडा स्त्रियाम् । शूकशिम्ब्यां, हिमग्रस्त-मूका-अज्ञेषु तु त्रिषु इति मेदिनी । वसु तोये धने मणौ इति वैजयन्ती, वसुः सूर्यो वसु. देवो वसुर्वन्हिर्वसुर्मरुत् इत्यनेकार्थध्वनिमञ्जरी अर्थोऽभिधेय रैवस्तुप्रयोजन निवृत्तिषु इत्यमरः ॥ १८ ॥ तत्रार्यभागो वदनं खगानां,
श्रेण्यौपुनश्चोष्ठपदं दधाने। क्षेत्रावनीशस्य तु सिन्धु–गङ्गे,
ते श्मश्रुणीभात इव प्रसिद्ध ॥ १९ ॥ अन्वयः-तत्र आर्यभागः [अर्यभागश्च] क्षेत्रावनीशस्य वदनं खगानां ।
श्रेण्यौ ओष्ठपदं दधाने. प्रसिद्ध ते सिन्धु गङ्गे श्मश्रुणीइवभातः ॥१८॥ व्याख्या-तत्र-पट्खण्डात्मभूभागे. आर्यभागः आर्यखण्डम् अर्यभागः अर्यैः स्वामिभिः भाति-शोभते इत्यर्यभाः स चासावमः पर्वतश्चेति स तथोक्तः-वैताढयपर्वतश्च.क्षेत्रावनीशस्य क्षेत्र पृथ्वीपते भरतक्षेत्रनृपस्य. वदनं-मुखं तत्स्थानीय इत्यर्थः । खगानां