SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ ३० महोपाध्यायश्रीमेषविजयगणिविरचिते सप्तसन्धानमहाकाव्ये प्रसिद्धि प्राप्ता प्रादुर्भूतेत्यर्थः सीता जनकराजनन्दिनी अपि श्रीदेवरत्वाश्रितलक्ष्मणाशां श्रिया युक्तो देवरः श्रीदेवरस्तस्य भावस्तत्त्वं श्रीदेवरत्वेनाऽऽश्रितो लक्ष्मणः सौमित्रिर्यस्यां सा चासौ आशा भरतेन राज्येऽङ्गीकृते रामवनवासार्थनियतीकृता दिक् दक्षिणादिगित्यर्थः ताँ लेभे। यद्वा श्रीदेवरत्वेन आश्रितो लक्ष्मणो यां यस्यां वा सा श्रीदेवरत्वाश्रित लक्ष्मणा सीता जानकी यतः भरतात् आशां दिशम् दक्षिणांदिशमित्यर्थः यद्वा आशां कामम् इच्छां वनवासान्ते राज्यवि. षयिणी वाञ्च्छामित्यर्थः लेभे इति सम्बन्धः ॥ यद्वा तद्भरतं भरतक्षेत्रं जगत्याः भूमेः आरामपदं उद्यानस्थानम् रमणकस्थलमित्यर्थः साम्राज्यरूपम् सर्वसम्पद्रूपम् सर्वसाम्राज्योपभोगायतनमिति भावः यतः सा प्रसिद्धिं गता त्रिजगद्विख्याता प्रतीता सर्वतः प्रसन्ना कृतादरा च धरणी भारतभूमिः सीतापिहलोत्कृष्टापि यद्वा लक्ष्मीरपि सर्वसम्पद्रपापि श्रीदे कुबेरे उत्तरदिविभागे वरत्वाश्रितलक्ष्मणाशां वरत्वेन श्रेष्ठत्वेन आश्रिता अधिगता लक्ष्मप्रधानमेव लक्ष्मणः स्वार्थेऽण् तस्य आशा अश्नुते व्याप्नोतीति आशा तां प्रधानव्यापकता लेभे सर्वतः श्रेष्ठत्वेनाश्रितप्रधानन्यापकतां प्रापेत्यर्थः ॥ अत्र श्लेष उत्प्रेक्षा चेत्यलंकृती ॥ २५॥ दाक्षिण्यमामृश्य यदस्य मेरुः, ___ स काञ्चनार्चिविबुधैधृतार्चः । महाविदेहं पुरतश्च पश्चा दस्यादिशद् दक्षिणभागमेव ॥ २६ ॥ अन्धयः-यत् मेरुः अस्य दाक्षिण्यमामृश्य महाविदेहं पुरतः पश्चात् च निवेश्य अस्य दक्षिणभागमेव (संनिवेशार्थम्) आदिशत् । स काशनार्चिः विबुवैभृतार्चः ॥ २६ ॥ कवाय अव दक्षिणमेलः अस्य वा दक्षिणभागले
SR No.008453
Book TitleSaptasandhan Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmrutchandracharya
PublisherJain Sahitya Vardhak Sabha
Publication Year
Total Pages480
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy