SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ महोपाध्याय श्रीसेव विजयगणिविरचिते सप्तसम्धानमहाकाब्बे अथ च पूर्वम् श्रीहीररूपम् श्रीहीर विजय स्वरूपम् श्रीहीर विजयस्वरूपेण स्थितम् तदनु तत्पश्चात् कनकवत् कनकविजयस्वरूपवत् ततः पुण्यशीलानुभूतम् पुण्यः पवित्रो यः शीलः शीलविजयः तेन अनुभूतम् अधिष्ठितम् पञ्चसंख्यकाये अर्हन्तः रामकृष्णौ च इति पञ्चार्हद्रामकृष्णाः तेषामभ्युदयकमलया कमलविजयश्थ इति पश्चाईद्रामकृष्णाभ्युदयकमला तया सिद्धविजयः चारित्र्यविजयः ताभ्याम् पूतम् पवित्रम् कृपायाः कृपाविजयस्य अदुरितम् निर्दुष्टम् चरितम् मेघायमानम् मेघविजयेन अपमानम् नीयमानम् एतच्चरितम् सत्प्रसादात् सञ्जनजनानुग्रहात् नन्दतात् आनन्दमाप्नुयात् ॥ ३२ ॥ इति श्रीसप्तसंधाने महाकाव्ये तपागच्छे भट्टारक श्रीविजयरत्नराज्ये महोपाध्यायश्री मेघविजयगणिविरचिते परम्पराधिकारवर्णनो नाम नवम सर्गः ॥ श्रीः ॥ ४४४ ॥ ग्रन्थ प्रशस्तिः ॥ सूत्रतः सूत्रिता ग्रन्थे, द्विचत्वारिंशदन्विता । चतुःशतीह काव्यानां सप्तसंधाननामनि ॥ १ ॥ श्री हेमचन्द्रसूरीशैः, सप्तसंधानमादिदम् । रचितं तदलाभे तु, स्वादिदं तुष्टये सताम् ॥ २ ॥ वियद्रसमुनीन्दूनां (१७६०) प्रमाणात् परिवत्सरे । कृतोऽयमुद्यमः पूर्वाचार्यचर्याप्रतिष्ठितः ॥ ३ ॥ || इति ग्रन्थ प्रशस्तिः ॥
SR No.008453
Book TitleSaptasandhan Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmrutchandracharya
PublisherJain Sahitya Vardhak Sabha
Publication Year
Total Pages480
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy