________________
भाचार्यश्रीविजयामृतसूरिप्रणीता सरणी टीका, सर्ग-९
टीका प्रशस्तिः।
श्रीमन्महेन्द्रमुकुटोपलरंजितांघ्रि
पंचाहतस्तवनसंस्तवसंस्कृता या । श्रीरामकृष्णचरिते सरणी नवीना,
नेमेः पवित्रचरणे क्रियतेऽर्पणा सा ॥१॥ यसोच्चजनतोपकारकरणप्रख्यातकीर्तित्रजः,
शुद्धाचारधनप्रचारचरणादक्षुण्णरक्षाव्रतः । विद्याकांतनितांतशांतसहजस्वांतप्रभाखण्डिता
ऽविद्याध्वांततति सदा विजयते श्रीवर्धमानः प्रभुः ॥२॥ अमन्दस्वच्छन्दोच्छलितललितच्छन्दविशद
च्छटाच्छायाक्षिप्तक्षणिकजगदच्छुद्रविभवः । क्षमापीठे शांति प्रसरति यदीयाक्षरतरा
क्षमाभूमिः क्षित्यां चरमजिनपोऽसौ विजयते ॥ ३ ॥ तदीये सत्पट्टे क्षपितततकांगततमा:,
शमारामग्रामकमणधनधामानिगममाः । अजिझस्वाचारक्षमतसुलक्ष्माशिवरमा
समालम्बप्रेमाऽभवदिह सुधर्मामुनितमः ॥४॥ ततो जम्बूस्वामी रुचिरतरजाम्बूनदरुचि
स्तदीये पट्टाब्धावजनि जनतानन्दनकरः । जगजन्तूद्धारांकुरजनननियाजजलदो
ज्वलत्कर्मज्वालाशमनजलधि●त्रविभवः ॥ ५।'