SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ आचार्यश्रीविजयामृतसूरिप्रणीता सरणी टीका. सर्ग - ९ पूर्व श्रीररूपं तदनु कनकवत्पुण्यशीलानुभूतं, पञ्चाद्रामकृष्णाभ्युदयकमलया सिद्धिचारित्रपूतम् । शुद्धं राज्ये कृपायाश्चरितमदुरितं नन्दतात् सत्प्रसादात्, श्रीमन्मेघायमानं मनसि रसभरैर्नित्यमुन्नीयमानम् ॥ ३२ ॥ ४४३ अन्वयः - पूर्व श्रीहीररूपम् तदनु कनकवत् पुण्यशीलानुभूतम् पंचाह द्रामकृष्णाभ्युदयकमलया सिख चारित्र्यपूतम् शुद्धम् कृपया राज्ये अदुरितं चरितं श्रीमत् रसभरैर्मनसि मेघायमानम् उन्नीयमानम् सत्प्रसादात् नन्दात् ॥ ३२ ॥ व्याख्या --- पूर्वम् प्रथमम् श्रीहीरमित्र वज्रमणिरिव रूपं स्वरूपं यस्य तत् तथोक्तम् तदनु तत्पश्चात् कनकवत् स्वर्णवत् सुवर्णतुल्यम् पुण्यशीलानुभूतम् पुण्यम् सुकृतम् शीलमाचारः ताभ्यामनुभूतम् सम्बद्धम् अथवा पुण्यशीलैः पवित्राचारिभिः अनुभूतमधिष्ठितम् चरिनायकत्वेनोपवर्णितम् पंच ते अर्हन्तश्चेति पञ्चान्तः रामश्च कृष्णवेति रामकृष्णौ पञ्चार्हन्तश्च रामकृष्णौ चेति पंचाईद्रामकृष्णाः तेषाम् अभ्युदय एव इष्टसाधनमेव कमला लक्ष्मीः इति पंचाद्रामकृष्णाभ्युदयकमला तथा सिद्धिचारित्र्यपूतम् मोक्षजनक चारित्र्येण प्रत्रज्यया अथवा सिद्धिर्बुद्धिः सुरत्वादिलब्धिः तया पूतम् पवित्रम् निष्कल्मपम् कृपायाः दयाया राज्ये दयासाम्राज्ये अदुरितम् दुरितरहितम् निष्पापम् चरितम् आख्यानम् मनसि चित्ते रसभरैः शांतादिरसानां भरैभरिः अथ च रसानां जलानां भरैर्मारे श्रीमन्मेघायमानम् मेघमिवाचरितम् घनायमानम् नित्यम् सततम् उन्नीयमानम् उद्धक्रियमाणम् अथ च दृश्यमानम् सत्प्रसादात् सताम् सजनानाम् प्रसादात् अनुग्रहात् नन्दतात् आनन्दम् प्राप्नुयात् महत्वमनुभूयादित्यर्थः ॥ ॥ ३२ ॥
SR No.008453
Book TitleSaptasandhan Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmrutchandracharya
PublisherJain Sahitya Vardhak Sabha
Publication Year
Total Pages480
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy