________________
४४३
महोपाध्यायश्रीमेघविजयगणिविरचिते सप्तसन्धानमहाकाम्ये
प्रलम्बबाहुस्तम् आजानुबाहुम् सुविशाललोचनम् सुविशाले अतिदीर्घ लोचने नेत्रे यस्य तम् पृथुनयनम् नरामरेन्द्रैः स्तुतपादपंकजम् नराश्च अमराश्व इति नरामरास्तेषामिन्द्रास्तैः स्तुतम् स्तुति विषयी. कृतं पादपंकजम् चरणकमलं यस्य तम् जिनोत्तमम् जिनेश्वरम् घृषभम् ऋषभप्रभुम् भक्त्या श्रद्धया प्रेम्णेत्यर्थः नमामि नमस्करोमि ॥३०॥ सौरं महः श्रीतपसा गणेऽस्मिन् ,
देदीप्यते सौम्यमपीह कीर्त्या । सप्तार्थसंधानजकाव्यमेतत् ,
तदुद्भवं तेन शुभं चिराय ॥ ३१ ॥ अन्वय:-श्रीतपसां गणेऽस्मिन् सौरम् महः इह कीा सौम्यम् अपि महः देदीप्यते एतत् सप्तानुसंधानजकाम्यम् तदुद्भवम् तेन चिराय शुभम् ३१
व्याख्या-अस्मिन् पुरो दृश्यमाने तपसांगणे तपोगच्छे अथवा तपसां व्रतविशेषाणां गणे समुदाये सौरम्महः सूरस्य सूर्यस्य इदम् सौरम् महस्तेजः तपसः कर्मदाहकत्वात् सौरतेज इव तेजस्तत्रेति अथ च सरेराचार्यपदपदकस्य इदम् सौरम् सूरिसंबन्धिमहस्तेजोऽस्मिन् अथ च की यशसा सौम्यम् सोमस्य चन्द्रस्येदम् सौम्यम् चान्द्रम् सर्वेषामनुकूलत्वात् महस्तेजः इह गणे देदीप्यते अतिशयेन विराजते एतत् सप्तार्थसंधानजकाव्यम् सप्तार्थस्य सप्ताभिधेयस्य यत् संधानमनु. सरणम् तस्माजातमिति सप्तार्थसंधानजं च तत् काव्यञ्चति सप्तार्थसं. धानजकाव्यम् तदुद्भवम् सूर्यवंशीय राजतेजोभवम् चन्द्रवंशीयनृपो.
द्भवम् सूरिपरम्परोद्भवञ्चैतत् तेन उभयतः पूतत्वात् चिराय चिरम् शुभम् कल्याणजनकं भूयादिति शेषः ॥ ३१ ॥