________________
आचार्य श्रीविजया मृतसूरिप्रणीता सरणी टीका, सर्ग - ९ ४४१
अन्वयः - अन्येऽपि मान्याः हरिभद्रसूरिशीलाङ्कनामा अभयदेवमुख्याः श्रीहेमचन्द्राः मलयात् गिरीशाः उद्योगधिया गिरीशाः जीयासुः ॥ २९ ॥ व्याख्या --- अन्येऽपि पूर्ववर्णितेभ्योऽन्ये भिन्नाः हरिभद्रसूरिः हरिभद्रसूरिनामा १४४४ चतुश्चत्वारिंशदधिकचतुर्दशशत ग्रंथप्रणेता शीलांकनामा श्रीशीलांकाचार्यः आचारांगसूत्रटीकाकारः अभयदेवमुख्याः अभयदेवसूरिः नवांगटीकाकृत् तथा श्रीहेमचन्द्राः श्रीहेमचन्द्राचार्याः अनेक ग्रंथप्रणेतारोऽपरवाचस्पतिरूपाः उद्योगधिया उघुज्यते इत्युद्योगः तस्य धिया बुद्धया उद्योगबुद्धया गिरीशाः सुमेरुपर्वताः देवानां कार्योद्योगस्तत्रैव भवतीति यथा सुमेरुर्मन्त्रणास्थानम् तथा एते इति भावः अथवा उत् उत्कृष्टो यो योगश्चित्तवृत्तिनिरोधः यद्वा योगः शासनाराधनाध्यवसायः तद्विया तन्मत्या गिरीशाः सुमेरुपर्वतकल्पाः अनेकानेक प्रत्यूहपवनेऽपि निःप्रकम्पा इति भावः मलयात् गिरीशाः मलयगिरीशा इत्यादयः सूरीश्वरा जीयासुः सर्वोत्कर्षेण वर्त्तिषीरन् ॥ २९ ॥ सुवर्णवर्णं गजराजगामिनं, प्रलम्बबाहुं सुविशाललोचनम् ।
नरामरेन्द्रैः स्तुतपादपङ्कजं,
नमामि भक्त्या वृषभं जिनोत्तमम् ॥ ३० ॥ अन्वयः - - सुवर्णवर्णं गजराजगामिनम् प्रलम्बबाहुम् सुविशाललोचनम् नरामरेन्द्रैः स्तुतपादपंकजम् जिनोत्तमम् वृषभम् भक्या नमामि ॥ ३० ॥ व्याख्या - सुवर्णवर्णम् सुवर्णः स्वर्ण इव वर्णो यस्य स सुवर्णवर्णस्तम् प्रकाशमयत्वात् तथा गजराजगामिनम् गजानां गजेषु वा राजा गजराजः इस्तिराजः स इव गंतुं शीलं यस्य स गजराजगामी तमू धीरोदात्वात् निर्भीकगमनः प्रलम्बबाहुम् प्रलम्बौ बाहू यस्य स