________________
...
.
..
.
.
..
.
.....~-
A
L A
१४. महोपाध्यायश्रीमेघविजयगणिविरचिते सप्ससम्मानमहाकाये भद्रपदम् कल्याणपदम् आदधतो स्वस्थाने निवेशयता यशोभद्रस्वामी तत्पश्चात्तत्पद्देऽभवदिति भावः अन्तरीपम् द्वीपम् जम्बूद्वीपम् अद्भुः ताय लोकानामिति शेषः अलंकृतं शोभितम् श्रीमहावीरस्वामिगुरुपरम्परागतरेतैर्जम्बूद्वीपमलंकृतमिति तात्पर्यः ॥ २७ ॥ संभूतपूर्व विजयं दधानः,
स भद्रबाहुर्यशसां समुद्रः। श्रीस्थूलभद्रोऽपि गिरिस्तथार्य
- नाम्ना ततश्चार्यसुहस्तिसूरिः ॥ २८ ॥
अन्वयः-संभूतपूर्व विजयं दधानः संभूनविजयः यशसा समुद्रः स भद्रबाहुः श्रीस्थूलभद्रः तथा आर्यमहागिरिः तत: नाम्ना आर्यसुहस्तिसूरिः २८
व्याख्या--संभूतपूर्व विजयं दधानः संभूत इति पूर्व पूर्वभाग यस्य एवंभूतं विजयं तं पदं दधानः अथ च संभूतो रागादिविजयो यस्य स संभूतविजयः यशसां कीर्तीनां समुद्रः कीर्तिरत्नाकरः स प्रसिद्धः भद्रबाहुः भद्रौ कल्याणगुणसंपन्नौ बाहू यस्य स तथोक्तः ततस्तदनन्तरम् स्थूलभद्रः स्थूलमुपचितं भद्रं कल्याणं यस्य स तथा आर्यनाम्नागिरिः आर्यमहागिरिः परिपहायुपद्रवैरकंप्यत्वात् महा. गिरिरिवेति महागिरिः स चासौ आयश्चति आर्यमहागिरिः ततस्तदनन्तरम् आर्यमुहस्तिसूरिः कर्मpमोन्मूलने सुहस्तीवेति सुहस्ती आर्यश्वासौ सुहस्ति सूरिश्चेति आर्यसुहस्तिमूरिः तत् परम्परायां क्रमादागता एते नव श्रुतकेवलिनः ॥ २८ ॥ अन्येऽपि मान्या हरिभद्रसूरि
शीलाकनामाभयदेवमुख्याः । श्रीहेमचन्द्रा मलयाद् गिरीशा,
जीयासुरुद्योगधिया गिरीशाः ॥ २९ ॥