________________
श्राचार्य श्रीविजयामृतसूरिप्रणीता सरणी टीका. सर्ग - ९
४३३
कदाचिदपि न मृतः स इदानीम्मृतो यदि जीवेत्तदा रथोऽयं सज्जो भवेत् अथ च ग्रावणिकमलमारोपयन् तथैव विहसितः यदि मृतो जीवेत्तदाऽश्मनि कमलमपि रोहेदित्यादि कथाभिः अमरबोधनेन सिद्धार्थजीवभूतदेवबोधनेन पटुर्ज्ञानवान् अयम्मे भ्राता मृतः किमेन वहामीति जातप्रत्ययः बभूव जातः ॥ १७ ॥
आत्तव्रतस्तप्ततपाः स रामः, क्षमाश्रमान्निर्वृतिरूपधाम ।
लब्ध्वाऽमृतस्याशनमाससाद,
द्राक् पञ्चमींतां च दिवं व्यतीत्य ॥ १८ ॥
अन्वयः - ततः तपः स रामः क्षमाश्रमात् निर्वृतिरूपधाम लब्ध्वा द्वाक् पञ्चमीम् नाम् च दिवं व्यतीय अमृतस्याशनम् आससाद ॥ १८ ॥
व्याख्या--आत्तत्रतः आत्तम् प्राप्तम् स्वीकृतमिति यावत् वतं चारित्र्यं येन स आत्तत्रतः गृहीतचारित्र्यः तप्ततपाः तप्तमनुष्ठितं तपः योगः समाधिर्वा येन स तप्तपाः समनुष्ठितयोगः स रामः बलदेवः क्षमाश्रमात् चारित्र्यग्रहणात् साधुवेपात् निर्वृतिरूपधाम अत्यन्तसुखमय सदनम् यद्वा क्षमा क्षांतिः तद्रवाश्रमात् चतुर्थाश्रमादित्यर्थः प्रव्रज्याग्रहणतः द्राक् झटिति ताम् प्रसिद्धाम् पञ्चमीन्दिवम् पञ्चमखस्थानम् व्यतीत्य उपभुज्य तत्र भोग्यसमयं यावत् भुक्त्वा अमृतस्य अशनं यत्र तत् अमृतभोजनम् देवत्वम् आससाद देवो बभूव ॥ १८॥ अथ क्षपारक्षिगणे गणेशा, विद्यातपःसत्यगवीनिवेशाः । संप्राप्तनिःश्रेयस भूप्रदेशाः, परम्परान्नायविदां सदेशाः ॥
अन्वयः - अथ क्षमारक्षिगणे गणेशाः विद्यातपःसत्यगवी निवेशाः संभानिःश्रेयस भूप्रदेशाः परम्परास्नायविदां सदेशाः ॥ १९ ॥