________________
३३४
महोपाध्यायीमेघविजयगणिविरचिते सप्तसम्धानमहाकाग्वे
व्याख्या-अथ अथानन्तरम् भगवनिर्वाणानन्तरम् क्षमारवि. गणे क्षमां तितिक्षा "बाह्ये वाध्यात्मिके चैव दुःखे चोत्पाति के कचित न कुप्यति न वा हंति सा क्षमा परिकीर्तिता ॥ आकृष्टोऽभिहतो वापि वा कौशेन च हंति वा । अदुष्टैमिन:कायैस्तितिक्षोः सा क्षमा स्मृतेति स्मृतिः" तां रक्षितुं पालयितुं शीलमस्येति क्षमारक्षी स चासो गणश्चेति क्षमारक्षिगणः तत्र यद्वा क्षमारक्षिणां गणः संघस्तत्र गणेशाः प्रधानभूताः विद्यातपःसत्यगवीनिवेशाः सत्या चासौ गौर्वाणी चेति सत्यगवी विद्या च तपश्च सत्यमवी चेति द्वन्द्वः तेषु निवेश: अभिनिवेश आग्रहो येषां ते विद्यातपःसत्यगवीनिवेशाः ज्ञानाध्ययनसूनतप्रवृत्तयः संप्राप्तनिःश्रेयसभूप्रदेशाः संप्राप्ता अधिगता निःश्रेयसस्य मोक्षस्य भूप्रदेशाः भूसान्निध्यं यैस्ते अधिगतकल्याणभूमिसन्निकर्षाः परंपराम्नायविदां सदेशाः परंपरा अविच्छिन्नो य आम्नायः संप्रदायः गुरुक्रमो वा स परम्पराम्नायः तं विन्दन्ति जानन्तीति परम्पराम्नायविदः निरवच्छिन्नसंप्रदायज्ञानिनस्तेषां सदेशाः सन्निभाः सदृशा इत्यर्थः गणधरा राजानश्च अभवनिति शेषः ॥ १९ ॥ गणाग्रणीः श्रीऋषभादिसेन
स्त्विषा जितग्लौषभादिसेनः । श्रीनाभिसेनान्वयिपुण्डरीकः,
प्रभाविभासी यतिपुण्डरीकः ॥ २० ॥ अन्वयः-गणाग्रणीः स ऋषभादिसेनः विषा जितग्लौः वृषभादिसेनः श्रीनाभिसेनान्वय पुण्डरीकः विभाविलासी यतिपुण्डरीकः ॥ २० ॥
व्याख्या--गणाग्रणीः गणेषु गणधरेषु अग्रणीः अग्रे नीयतेऽसौ अग्रणीः गणाग्रणीः गणश्रेष्ठः श्रीऋषभः आदिर्यस्य सेनस्य स ऋषभा. दिसेनः ऋषमसेनः तदभिधानः विषा जितग्लौः विषा कात्या जितः