________________
४१२ महोपाध्यायभीमेधविजयगणिविरचिते सप्तसन्धानमहाकाव्ये पदे पदे चानकमोचनेन,
प्रवृत्तिमाधत्त विरोचनेन ॥ १६ ॥ अन्वयः-- तदा भग्रजन्मा बहुशोचनेन मोहात् समुल्लासिविलोचनेन पदे पदे च मानकमोचनेन विरोचनेन प्रवृत्तिम् आधत्त ॥ १६ ॥
व्याख्या-तदा कृष्णदेहपरित्यागे सति अग्रजन्मा अग्रे प्रथम जन्म यस्य स अग्रजन्मा जन्मतः श्रेष्ठः वलदेवः बहुशोचनेन अत्यं. तमन्युना मोहात् कृष्णप्रेमतः समुल्लासी विकखरे विलोचने यस्य स मोहात् समुल्ला सिविलोचनस्तेन भ्रातृस्नेहवशानिनिमेषचक्षुषा पदे पदें च स्थाने स्थाने आनकस्य उत्साहस्य धैर्यस्येति यावत् मोचनेन परित्यागेन विरोचनेन विगतं नष्टं रोचनं कुत्रापि रुचिर्मनोनिर्वृतिर्यस्य तेन विगतमुखेन प्रकृचिम् प्रवर्तन विहरणम् आधत्त प्रत्यपत्त कृष्ण स्कन्धे निधायेतस्ततः परियभ्रामेत्यर्थः ॥ १६ ॥ बभ्राम नभ्राडिव वृष्टिधारा,
___ नन्दन् स वर्षार्धमुदूढबन्धुः । वृथा कथाभिननु योधनेन,
पटुर्बभूवामरबोधनेन ॥ १७ ॥ अन्वयः- उठूढबंधुः स नभ्राडिव वृष्टिधारा नन्दन् वर्षार्धम् बभ्राम वृधाकथाभिर्ननु योधनेन अमरबोधनेन पटुबभूव ॥ १७ ॥
व्याख्या-उदृढबंधुः उदृढः स्कन्धेन धृतः बंधुः कृष्णो येन स उदृढबंधु स्कंधकृतकृष्णा नभ्राडिव मेघ इव वृष्टिधारा वर्षधारा नन्दन अभिनन्दन् वर्षासमये वृष्टिधाराः सहन् यद्वा वृष्टिधारा नयनाश्रुधारा नन्दन प्रस्रवन् स बलदेवः वर्षाधम् षड्मासपर्यन्तं बभ्राम विचचार वृथाकथाभिः कोऽपि देवः सिद्धार्थस्तदीयभ्राता मृतो देवः सन् अश्ममयं भनस्थं योजयन् बलेन विहसितः प्रत्याह यः संग्रामे