________________
२१
आचार्यश्रीविजयामृतसूरिप्रणीता सरणी टीका. यद्वा अरतिः-रतिविरहः रागाभावोवाऽस्याऽस्तीत्यरतः अर्शआधच प्रभः-चन्द्रप्रभस्वामी ' नामैकदेशग्रहणे नामग्रहणात् देवदत्तो दत्त इतिवत्. तथाच प्रभः-चन्द्रप्रभः अरतः-रतिविरहितः रागा-भाक्वान् वाऽत्र तत्प्रभारतम् ।
भारतवित्सभारतम्-भरतान्-भरतवंश्यानधिकृत्य कृतोग्रंथो भारत-पाण्डवचरित-महाभारतादिकम् भरतेन मुनिना प्रोक्तं भारतनाट्यशास्त्रम् वा विदन्ति-जानन्तीति भारतविदस्तेषां सभासु-परि. पत्सुरतम् बहुतरभारतवित्परिपत्कमित्यभिसन्धिः। श्रीभारतम्विभर्ति पालयति षटखण्डं भरतक्षेत्रमिति भरतः तेन चिन्हितं पालितं वा तस्येदं वा भारतम् श्रीभिः सहितं भारतं श्रीभारत-भरतक्षेत्रमित्यर्थः अस्ति-वर्तते अनुप्रासः । स्वभावोक्तिश्च ।
रत्नं मणियोरश्मजातौमुक्तादिकेऽपिचेत्यमरः पुष्पंसूनं सुमनसः प्रसवश्व मणीवकम् इति हेमचन्द्रः भारतो भरतापत्ये....इति. भारतं ग्रंथभेदेस्याद्वर्षभेदे नपुंसकमिति च कोशः॥ श्रीर्वेशरचना शोभा भारती सरलद्रुमे । लक्ष्म्यां त्रिवर्गसम्पनिविधोपकरणेषु च। विभूती च मतौ च स्त्री इति मेदिनी कोशः ।।
"श्रेणीभवद्भव्यमणीमणीचकैः” इत्येतद्घकटकं "मणीचक्र" पदं यदि कवेः स्वीयशयकुशेशयकलितललितलिप्या 'चकार' तृतीयाक्षरकमेवनिर्गतं चेत्तदाऽयमर्थः-"मणीव चकते धातोरनेकार्थत्वात् दीप्यते इति मणीचकः-दीपविशेषः-विद्युद्दीप इत्यर्थः । चक हप्तौ प्रतीपाते च. पचायच् । मण्यः मणीचका इव इति मणीमणीचकाः, श्रेणी भवन्तः पंक्तिबद्धतयास्थिताः भव्या: शोभना मणीमणीचकायेषु ते श्रेणीभवद्भव्य मणीमणीचका स्तैस्तथोक्तैः" ॥ १६ ॥