________________
www
..
......
.........
.
...
.......
...
........
..
.......
...........
......
...
महोपाध्यायश्रीवविजयगणिविरचिते सससन्धानमहाकाव्ये गङ्गाऽनुषङ्गान्मणिमालभारिणी,
सुरद्रुसेकामृतपूरसारणी । क्षेत्रक्षमेशस्य रसप्रचारिणी,
__ साप्रामुढा वनितेव धारिणी ॥१७॥ अन्वयः-प्रागुदूढा वनितेव गङ्गा [शोभते क्षेत्रक्षमेशस्य अनुषङ्गात् मणिमालभारिणी सुरद्रुसेकामृतपूरसारणी [क्षेत्रक्षमेशस्य] रसप्रचारिणी धारिणी.।। १८॥
व्याख्या-क्षेत्रक्षमेशस्य क्षेत्र पृथ्वीपतेः भरतक्षेत्रस्य प्रागुदृढापूर्व परिणीता वनिता-स्त्री इब गङ्गा-तन्नाम्नी शाश्वती महानदी शोभते इति सा कीदृशीत्याह-क्षेत्रक्षमेशस्य क्षेत्रस्थः क्षमेशः क्षेत्रक्षमेशस्तस्य-चैताठ्य पर्वतस्य अनुषङ्गात-सम्बन्धात् मणिमालभारिणी मणीनांमालां बिभर्ति धारयति तच्छीला यद्वा मणीनां मालेव इति मणिमाला-दीप्तिस्तां यद्वा मणीनां मालेव माला-पंक्तिर्मणिमाला तां बिभत्तीत्येवंशीला रत्नसमूहधारिणीत्यर्थः माले--षिके-ष्टिकस्यान्ते भारि-तूल-चितेषु इत्यनेन माला शब्दस्य ह्रस्वत्वम् । वैताढयपर्वतासन्ने गङ्गाया नवनिधान शालित्वस्य शास्त्रसिद्धतया मणिमालाधारित्वमुपपद्यते । पुनः कीदृशी? सुरद्रुसेकामृपूरसारणी-सुरद्रुः कल्पवृक्षः देवदारुवृक्षो का तस्य सेचनं सेका जलादिनाऽऽीकरणम् सिर्भावेघञ् । सेकार्थम् अमृतं चारि तस्य पूरः-प्रवाहः तस्य सारणी कुल्या इव । पुनः कीदृशी ? क्षेत्रक्षमेशस्यन्वर्षपर्वतस्य प्रस्तावात् हेमवतः रसप्रचारिणी-रसं-जलं तम्य प्रचारिणी आसमुद्रं विस्तारिजीत्यर्थः । यद्वा क्षेत्रक्षमेशस्य क्षेत्रं-कलत्रं भार्येत्यर्थः तस्यै तस्था वा क्षमा योग्यः हितो वा शक्तो वा ईशा-पतिः तस्य तथोक्तस्य रसप्रचारिणीचमा आनन्दः शृङ्गारादिर्वा तस्य प्रचारिणी सम्पादिका