________________
२. महोपाध्यायश्रीमेघविजयगणिविरचिते सप्तसन्धानमहाकाव्ये रत्यादिस्थायिभावादयः। देवादिविषयारत्यादयो वा पदार्था वा यद्वा अभिप्रायाः, पयोवद्-दुग्धवत् जलबद्वा स्वभावात्-निसर्गात् सरसाः-अनुकूलाः वर्णनीयानुगुणा इत्यर्थः । यद्वा मनोहराः, मधुरा वा स्युः ॥ यद्वा यतः-प्रसन्नत्वात् कृपया काव्येक्षणात् वः भावाःआशयाः हृदयानीत्यर्थः स्वभावात् न तु दुर्जनादेरिवकृत्रिमतयेतिभावः सरसाः सार्दा अनुकूला वा स्युर्येन कवीनां प्रवृत्तिः सफला भवेत् ॥ १५ ॥ श्रेणीभवद्भव्यमणी मणीवकै
वरैरगानां निकरौर्विकखरे । द्वीपेऽस्ति जम्बूपपदे प्रभारतं,
श्रीभारतं भारतवित स भारतम्॥१६॥ अन्वयः-श्रेणीभवद्भव्यमणी मणी च (ब) कैः वरैः अगानां निकरैः विक. स्वरे जम्बूपपदेवीपे प्रभारतं भारतचित्सभारतं श्रीभारतम् अस्ति ॥ १३ ॥
व्याख्या-श्रेणीभवद्भव्यमणीमणीवकः-अश्रेणयः श्रेणयः सम्पद्यन्ते तथा भवन्ति इति श्रेणीभवन्ति, मण्यः-रत्नानि मणीवकानि कुसुमानीव इति मणीमणीवकानि श्रेणीभवन्ति भव्यानि-शोभनानि मणीमणीवकानि येषु ते श्रेणीभवद्भव्यमणीमणीवकाः तैः तथोक्तैः । अगानां-न गच्छन्तीत्यगाः-पर्वता वृक्षाश्च “शैल-वृक्षौनगावगौ" इत्यमरः । तेषां तथोक्तानां निकरैः-समूहैः विकस्वरे-विकासिनि "विकासीतु विकस्वरः" जम्बुपपदेद्वीपे-जम्बूद्वीपे इत्यर्थः । प्रभारतं भरतस्य-आपमेः, दौष्यन्तेर्वा दाशरथेचा गोत्रापत्यानि भारताः, प्रकृष्टा भारताः-भरतवंशीयनृपतयो यस्मिन् तत् । यद्वा भरते न मुनिना प्रोक्तं भारतं प्रकृष्टं भारत-नाट्यशास्त्रं यस्मि स्तत् । अथवा प्रभा रता-सदास्थितिकायत्र तत्-प्रभासु रतं-सक्तं वा तत् ।