________________
आचार्यश्रीविजयामृतसूरिप्रणीता सरणी टीका.
बंबयो स्तथेतिवचनेन बचयोः रलयोश्चैकत्वस्मरणात् । वक्त्रे-वाग्मिने युक्तियुक्तबहुवादिने रक्त: अनुगगवान् यद्वावक्त्रे मुखे रक्तः प्रसन्न इत्यर्थः चरणे आचारे श्रेष्ठाचरणे शीलेवा प्रसक्तः-व्यासगवान् लीन इत्यर्थः यद्वा रणे- युद्धे प्रसक्तः-सानन्दः सदुग्धाम्भसि-दुग्धमिश्र जले लक्षणया सदसतोरित्यर्थः तद्विवक्ता-विवेचनशीलः सदसद्विवेकशालीत्यर्थः ॥ १४ ॥ सत्त्वेऽप्यसत्त्वे कियती कथा न,
तत्सन्तु सन्तः सततं प्रसन्नाः । काव्येक्षणाद्वः कृपया पयोवद्,
भावाःस्वभावात्सरसा यतः स्युः॥१५॥ अन्वयः-सत्त्वेऽसत्वेऽपि कियती कथा न असित तत् सन्तः प्रसन्नाः सन्तु. [ मयि ] यत: वः कृपया काव्येक्षणात् भावा: पयोवत् स्वभावात् सरसा: स्युः ॥ १५ ॥
व्याख्या-अपि समुच्चयार्थकोभिन्न क्रमश्च (गर्हा-समुच्चयप्रश्न-शङ्कासंभावनास्वपि इत्यमरः) तथा च सन्वे-माधुभावे सजनत्वे इत्यथैः असत्त्वे असाधुभावे असज्जनत्वे दौर्जन्ये इत्यर्थः कियती-किंप्रमाणिका कथा वाक्यविस्तारः न अस्तीति शेषः बहुविधैवकथाऽस्तीत्यर्थः । यद्वा सत्त्वे-गुणे असचे दोषारोपे च बयउक्तयः सन्तितत्-तेन हेतुना तस्माद्धेतोर्वा सन्तः--सज्जनाः सततं प्रसन्नाःकृतप्रसादाः अनुग्राहका इत्यर्थः सन्तु-भवन्तु मयीतिशेषः । यतःयस्मात् कारणात् प्रसादाद्वा वा-युष्माकम् ईक्षणकर्तृभूतानाम् कृपया अनुग्रहेण कान्येक्षणात्-काव्याऽवलोकनात् प्रस्तुतकाव्यसमीक्षणादित्यर्थः यद्वा काव्यया-धिया-ईक्षणात्-पर्यालोचनादित्यर्थः (काव्यं ग्रंथे पुमान् शुक्र काव्यास्यात्पूतना-धियोरितिकोशः) भावा:--