________________
१८ महोपाध्यायश्रीमेघविजयगणिविरचिते सप्तसन्धानमहाकाव्ये स राजहंसः कविनास्वकार्ये,
स्मार्यः स दुग्धाम्भसि तद्विवेका॥१४॥ अन्वयः---कविना स्वकार्येमरालवाल:वक्त्रस्वतएवरक्तः तद्वच्चरणेऽपि प्रसक्तः सदुग्धाम्भसि तद्विवेक्तास राजहंसः स्मार्यः ॥ १४ ॥
व्याख्या-कविनाकाव्यका स्वकार्येकविकर्मणि काव्यादौ सः प्रसिद्धः ( प्रक्रान्त प्रसिद्धाऽनुभूतार्थकस्तच्छन्दो यच्छब्दोपादानं नाऽपेक्षते इति नियमादत्र (पद्ये) यच्छब्दस्याऽनपेक्षिततया नोपादानम्) राजहंसा-हंसानां राजा श्रेष्ठन्वात् (राजदन्तादित्वात् परनिपातः) रक्तवर्णचञ्चु चरणयुक्त श्वेतवर्ण हंसविशेषः राजहंसास्तु ते चञ्चु चरणैर्लोहितैः सिताः इत्यमरः । राजा हंस इव सारग्राहित्वादिगुणसाधात् राजहंसःनृपश्रेष्ठश्च स्मार्य एकत्र सारग्राहित्वादिगुणैरनुकरणीयतया अपरः पवित्रचित्रचारित्रशालितया वर्णनीयतया स्मरणीयः तेन च कवेः प्रतिभादिविकाशात् । सकलकलंपुरमेतज्जातं स. म्प्रति सुधांशुबिम्बमिव इत्यादाविव उभयोः (हंसस्य राज्ञश्च) समान शब्द वाच्यतारूपसाधर्म्य श्लेषेणाह-मरालेति । हंसपक्षे मरालवालः मराल: राजहंसजातीय हंसविशेषः तस्य बाला शावकः अपत्य मित्यर्थः तद्वंश्य इति तात्पर्यम्, अत एव वके चञ्चौ स्वतएव निसर्गादेव रक्तालोहितः, चरणे अतियुगलेऽपि तद्वत्-तथा रक्त इत्यर्थः, प्रसक्तः प्रसक्तिः प्रसङ्गःगुणिनां प्रस्तावः गुणवतां चर्चायामाख्यान मित्यर्थः अस्याऽस्तीति स तथोक्तः। स दुग्धाम्भसि-क्षीरसंमिश्रनीरे तद्विवेत्ता तयोः (दुग्धजलयोः) पृथग्भावसम्पादयिता विवेचको वा राजपक्षे-मरालवालामरालाः कन्जलानि इत्र बाला: मूर्धजाः केशायस्य स इति. मराला:-चिकणा बाला: केशायस्येतिवा स तथोक्तः। यद्वा मरालान्खलान् वारयतीति सः। रलयोर्डलयोश्चैव स-शयो