________________
आचार्य श्रीविजयामृतसूरिप्रणीता सरणी टीका.
म्बन्धादन्येषामपि देवत्वं सुतरां भवतीति भावः । १२। श्लेषतुल्ययोगिते चात्रालंकृती | खलःकल्केभुविस्थाने इति हैमः पिशुने दुर्जने खल इति शृङ्गारादौ विषे वीर्ये गुरागेद्रवेरस इत्युभयत्रामरः ॥ १२ ॥ कायेन वाचा मनसा विशुद्धः
स पक्षमध्यस्थित एव हंसः ॥
ब्रह्माऽमुनाबाह्यधियापि बाह्यः,
१७
प्रियो विधिस्तन्ननु सज्जनस्य ॥ १३ ॥
अन्वयः - स इंस एव [ यथाहंसः ] कायेन वाचा मनसा विशुद्धः पक्षमध्यस्थितः । [ तथासज्जनोऽपि ] अमुना ब्रह्माऽवाह्यधियाऽपि बाह्यः तत् विधिःसज्जनस्य प्रियः ॥ व्याख्या - सः = सज्जनः हंस एव हेतुमाह यथा हंसः खनाम ख्यातपचिविशेषः कायेन= स्वरूपेण वाचा खरेण मनसा च विशुद्धः अवदातः पवित्रश्च पक्षमध्यस्थितः पक्षयोः गरुतोर्मध्ये ऽन्तराले स्थितः तथा सज्जनोपि कायवाङ्मनोभिः विशुद्धः = अनवद्यः, पक्षमध्यस्थितः = पक्षे = वादि प्रतिवादिनोर्विरोधे मध्यस्थितः = मध्यस्थः । यद्वा पक्षयोः = वादिप्रतिवाद्युभयप्रश्नकोटि- समाधान कोट्योर्मध्यस्थितः = माध्यस्थ्य माश्रितः नत्वन्यतर पक्षपातीत्यर्थः निष्पक्षपात इति यावत् । अन्यदपि साम्यं दर्शयति ब्रह्मेति अमुना- हंसपक्षिणा ब्रह्मादेव विशेषः अवाह्यधिया हार्दिकानुरागेण यद्वा अयं मयाबाह्य इति संकल्पमन्तरेणापि स्वभावतएववाह्यः स्वपृष्ठेधार्यः हंसस्य तद्वाहनत्वात् तत् तस्मात् सज्जनस्य विधिः शास्त्रोक्तक्रियाकलापः प्रियः स्वकर्तव्यत्वेनाभिमत इत्यर्थः अविधिशब्दस्य ब्रह्मशब्द पर्यायत्वेऽप्यर्थ भेदादर्थश्लेषः तथा सज्जने हंसारोषणाद्रूपकोऽबाह्यचाद्यत्वेन विरोधाभासश्चेत्यलंकृतयः ॥ १३ ॥ मरालबालः स्वत एववक्त्रे.
रक्तः प्रसक्तश्चरणेऽपि तद्वत् ॥