SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ १६ महोपाध्यायश्रीमेघविजयगणिविरचिते सप्लसन्धानमहाकाव्ये .... ... ......... जननद्वारा व्याकुलीभावजनकः । किं न स्यात् स्यादेवेत्यर्थः ।। शब्दा ऽर्थोभयश्लेषः अर्थान्तरन्यासः अनुप्रासः । शृङ्खलं पुंस्कटीकाञ्च्यां लौहरनौ च बन्धने इति हैमः ॥ कंटकः क्षुद्रशत्रौ च कर्मस्थानकदोषयोः । रोमाञ्चे च द्रुमाङ्गे च कण्टको मस्करेऽपिचेति विश्वः ॥ यद्गोरसाधिक्यमुदेतिलोके खलस्यपर्यायविनाशनेन । संभाव्यतेस्मादमृताशनस्या धिकाधिकारद्विबुधात्मनैव ॥१२॥ अन्वयः-लोके खलस्यपर्यायविनाशनेन यद्गोरसाधिक्यमुदेति अस्मात् । अमृताशनस्य अधिकाधिकारात् विश्रुधात्मतैवसंभाव्यते ॥ १२ ॥ व्याख्या-लोके खलस्य तिलकलकस्य द्रव्यविशेषस्य पर्याय विनाशनेन पर्यायः क्रमभाविस्वभावः प्रकृते खलत्वरूपस्तस्य विनाशने नध्वंसेनेत्यर्थः गोरसाधिक्यं दुग्धघृतादिप्रचुरता उदेति उद्भवति अस्मात् गोरसाधिक्यात् अमृताशनस्य दुग्धघृतादि भोजनस्य अधिकाधिकारात् अधिकप्रवर्तनात् निरन्तरप्रचारात् विबुधात्मतैवपण्डितात्मतैवसंभाव्यते उत्प्रेक्ष्यते शुद्धाहारविहारस्य निर्मलबुद्धिप्रयोजकत्वादितिभावः । ___ अथ च खलस्य दुर्जनस्य पर्यायविनाशनेन तद्वाचकपर्यायनशंस घातुक क्रूरादिशब्दानामपि निराकरणेन गोरसाधिक्यम् गोः वाल्याः रसस्य आस्वा-द विशेषस्य आधिक्यम् समृद्धिमदेति यद्वा गो पृथिव्या रसस्य गुणस्य क्षान्त्यादे राधिक्यं बाहुल्यादेति प्रकाशते असाद् गोरसाधिक्यात् अमृताशनस्य देवस्य अधिकाधिकारात् अत्यधिकसम्बन्धात् विबुधात्मतैव सर्वेषान्देवत्वमेव संभाव्यते. देवस
SR No.008453
Book TitleSaptasandhan Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmrutchandracharya
PublisherJain Sahitya Vardhak Sabha
Publication Year
Total Pages480
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy