________________
आचार्य श्री विजया मृतसूरिप्रणीता सरणी टीका.
पाययोरपीतिमेदिनी । भोगः सुखे धने पुंसि चाहेः फण- शरीरयोः । पालनेऽभ्यवहारे च योषिदादिभृतावपीति मेदिनी ॥ १० ॥
कार्या खलानां स्खलना नृपेण,
प्रसङ्गतः शृङ्खलमीलनेन ॥
उच्छृङ्खलः शृङ्खलको न किंस्या
दुद्वेजकः कण्टकसंकटेन ॥ ११ ॥
१५
( अन्वयः ) - नृपेण प्रसङ्गतः शृङ्खलमीलनेन खलानां स्खलना कार्या. उच्छृङ्खलः शृङ्खलकः कण्टकसंकटेन उद्देजकः किं न स्यात् ।
व्याख्या:--- नृपेण = राज्ञा प्रसङ्गतः - अवसरं प्राप्य श्रृङ्खलमीलनेन - शृङ्गात् = प्राधान्यात् स्वल्यतेऽनेनेतिशृङ्खलः = पृषोदरादित्वात् शृङ्खला लौहमयबन्धनरज्जुविशेषः तस्य तेन वा मीलनं संबन्ध: तेन तथोक्तेन शृङ्खलया नियम्येतिभावः खलानां दुष्टानां स्खलना = गतिप्रतिरोधः कार्या विधेया । अन्यथाऽनिष्टमाह = उच्छृङ्खल इति उद्गतः शृङ्खलातः इति. उच्छिन्ना शृङ्खला येनेति वा उच्छृङ्खल : लौहमयपादबन्धनरहितः नासारज्यादिरहिततयानिर्बाधगतिकः शृङ्खलकः = उष्ट्र: कण्टकसंकटेन=कण्टकैः = सूचीवत्तीक्ष्णाग्रवृक्षावयवविशेषैः संकट: =संकीर्णः वन्यप्रदेशादिस्तेन, कण्टकैः = संकटं = दुःखं तेन तज्जननेन हेतुना वा उद्वेजक:- चित्त व्याकुलताजनकः किं न स्यात् स्यादेव. उष्ट्राणां कण्टकप्रियतया तदाचितप्रदेशादौ तद्गमने तदन्वेषणार्थं तत्रगतानां तदारूढानां कण्टकसम्बन्धसम्भवात् ।
उच्छृङ्खलः =अनियन्त्रितः निरङ्कुशः खलोपि कण्टकसंकटेन= कण्टका इव दुःखजनकत्वात् कण्टकाः क्षुद्रशत्रवस्तेभ्यः संकटं = दुःखं विपत्तिर्वा तेन तज्जननेनेतिभावः उद्वेजकः- क्षुद्रशग्वादिभिर्विरोधादि